________________
सांख्यमतम् ।
तथा नित्या या चिचेतना तयाभ्युपेतः । एतेन पुरुषस्य चैतन्यमेव स्वरूपं, न तु ज्ञानं, ज्ञानस्य बुद्धिधर्मत्वादित्यावेदि - तं द्रष्टव्यम् । केवलमात्मा स्वं बुद्धेरव्यतिरिक्तमभिमन्यते । सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति, बुद्धिचोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, 5 ततः सुख्यहं दुःख्यहं ज्ञाताहमित्युपचर्यते । श्राह च पतञ्जलिः । “शुद्धो ऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्मापि तदात्मक दूव प्रतिभासते" इति । बुद्धिस्याचेतनापि चिच्छक्रिसन्निधामाञ्श्चेतनावतीवावभासते” इति । पुमानित्यत्र जात्यपेचयैकवचनम् । तेनात्मानेकोऽभ्युपगन्तव्यः, जन्ममरण - 10 करणानां निथमदर्शनाद्धर्मादिप्रवृत्तिनानात्वाच्च । सर्वेऽप्यात्मानः सर्वगता नित्याश्चावसेयाः । उक्तं च । अमूर्तवेतनो भोगी नित्यः सर्वगतोऽक्रियः ।
1
अकर्ता निर्गुण: सूक्ष्म श्रात्मा कापिलदर्शने ॥ इति ॥ ॥ तत्त्वान्युपसंहरन्नाह ।
पञ्चविंशतितत्त्वानि संख्ययैवं भवन्ति च । प्रधाननरयोश्चाच वृत्तिः पंग्बन्धयेोरिव ॥ ४२ ॥
१०५
14
15
चकारी भिन्नक्रमः, एवं च संख्यया पञ्चविंशतितत्त्वानि भवन्ति । ननु प्रकृतिपुरुषावुभावपि सर्वगतौ मिथःसंयुक्तौ कथं वर्तते इत्याशंक्याह । प्रधानेत्यादि । प्रधानपुरुषयोश्चाच विश्वे 20 पंम्वन्धयोरिव वृत्तिर्वर्तनम् । यथा कश्चिदन्धः सार्थेन समं