________________
१०.
षड्दर्शनसमुच्चयः सटोका
रूपाया अन्यस्तु पृथग्भूतः, पुनरकर्ता विगुणो भोका नित्याचदन्धुपेतच पुमान्पुरुषस्तत्त्वम् । तत्रात्मा विषयसुखादिकं तत्कारणं पुण्यादिकर्म च न करोतीत्यकर्ता, आत्मनस्तुणमात्रकुनौकरणे ऽप्यसमर्थत्वात् । कौँ तु प्रकृतिरेव, तस्याः प्रवृ5 तिखभावत्वात् । तथा विगुणः सत्त्वादिगुणरहितः, मत्त्वादीनां प्रकृतिधर्मवादात्मनश्च तदभावात् । तथा भोका अनुभविता। भोकापि साक्षात्र भोक्ता, किं तु प्रकृतिविकारभूतायां छुभयमुखदर्पणाकारायां बुद्धौ संक्रान्तानां सुख
दुःखादौनां पुरुषः स्वात्मनि निर्मले प्रतिबिम्बोदयमात्रेण 10 भोका व्यपदिश्यते, बुयध्यवमितमर्थं पुरुषश्चेतयत इति वचनात् । यथा जपाकुसुमादिसन्निधानवशात्स्फटिके रकनादि व्यपदिश्यते, तथा प्रकृत्युपधानवत्त्वात्मुखदुःखाद्यात्मकानामर्थानां पुरुषस्य भोजकत्वं युक्रमेव व्यपदिश्यते । वादमहार्णवो ऽयाह । बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं 15 द्वितीयदर्पणकल्पे पुंस्यध्यारोहति; तदेव भोक्तत्वमस्य, न खात्मनो विकारापत्तिरिति ॥ | तथा चासुरिः । विविक्रदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसो ऽम्भसि ॥ १ ॥ 20 वन्ध्यवासौ वेवं भोगमाचष्टे ।
पुरुषो ऽविकृतात्मैव खनि समचेतनम् । ' मनः करोति मानिध्यादुपाधिः स्फटिकं यथा ॥२॥ इति ॥