________________
सांख्यमतम् ।
१०३
स्वविकृता नित्याभ्युपगम्यते । ततो न कदाचिदपि मा स्वखरूपाड्डयति । तथा च महदादिकस्य प्रकृतेश्च खरूपं मांख्यैरित्यमचे [ सांख्यकारिका २० ]। .
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । . मावयवं परतन्त्रं व्यक्तं, विपरौतमव्यनम् ॥ २ ॥ इति ॥ 5
तत्र हेतुमत्कारणवन्महदादिकं, अनित्यमित्युत्पत्तिधर्मकबाडुयादेः, श्रव्यापीति प्रतिनियतं न सर्वगं, मक्रियमिति मह क्रियाभिरध्यवसायादिभिर्वर्तत इति सक्रिय, मव्यापारं संचरणक्रियावदिति यावत्, अनेकमिति चयोविंशतिभेदात्मकं, प्राश्रितमित्यात्मोपकारकत्वेन प्रधानमवलम्ब्य स्थितं, 10 लिङ्गमिति यद्यस्मादुत्पन्नं तत्तस्मिन्नेव लयं चयं गच्छतौति लिङ्गम् । तत्र भूतानि तन्माचेषु लोयन्ते, तन्मात्राणेन्द्रियाणि मनचाहंकारे, म च बुद्धौ, मा चाव्यने, तच्चानुत्पाद्यत्वान्न क्वचित्प्रलीयते । भावयवमिति शब्दस्पर्शरूपरसगन्धात्मकरवयवैर्युक्रत्वात्, परतन्त्रमिति कारणायत्तत्वादित्येवंरूपं 15 व्यक्तं महदादिकम् । अव्यक्तं तु प्रकृत्याख्यम् । एतद्विपरौतमिति । तत्र विपरीतता सुयोज्यैव । नवरं प्रधानं दिवि भुव्यन्तरिक्षे च सर्वत्र व्यापितया वर्तत इति व्यापित्वं तस्य, तथाव्यतस्य व्यापकत्वेन संचरणरूपायाः क्रियाया अभावानिक्रियत्वं च द्रष्टव्यमिति दिभात्रमिदं दर्शितम्। विशेषव्याख्यानं 20 तु सांख्यसप्तत्यादेस्तच्छास्त्रादवसेयमिति ॥ अथ पञ्चविंशतितमं पुरुषतत्त्वमाह “अन्यस्त्वकर्ता” इत्यादि। प्रकृतेश्चतुर्विंशतितत्त्व