________________
सांख्यमतम् ।
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ १ ॥
अत्र ब्रह्मादिस्तम्बपर्यन्त इति ब्रह्मादिपिशाचान्तो ऽष्टविधः सर्ग इति ॥
६६
एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥ ३६ ॥
5
एतेषां सत्त्वादिगुणानां या समा तुल्यप्रमाणा अवस्था श्रवस्थानं, सा सत्त्वादीनां समावस्यैव प्रकृतिरुच्यते । किलेति पूर्ववार्तायाम् । सत्त्वरजस्तमसां गणानां क्वचिद्देवादौ कस्यचि - दाधिक्ये ऽपि मिथः प्रमाणापेचया चयाणामपि समानावस्था 10 प्रकृतिः कीर्त्यत इत्यर्थः । प्रधानाव्यक्तशब्दाभ्यां वाच्या, सा च प्रकृतिः प्रधानमव्यक्तं चोच्यते नामान्तराभ्याम् । नित्यमप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थं स्वरूपं यस्याः सा नित्यस्वरूपिका, श्रविचलितस्वरूपेत्यर्थः । अत एव मानवयवासाधारण्य शब्दास्पर्शरसारूपागन्धाव्यया चोच्यते । मौलिक्यसांख्या ह्यात्मान- 15 मात्मानं प्रति पृथक् प्रधानं वदन्ति, उत्तरे तु सांख्याः सर्वात्मप्येकं नित्यं प्रधानमिति प्रपन्नाः ॥
प्रकृत्यात्मसंयोगात्सृष्टिर्जायते । श्रतः सृष्टिक्रममेवाह ।
ततः संजायते बुद्धिर्महानिति यकोच्यते । हंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ॥३१॥ 20