________________
षड्दर्शनसमुच्चयः सटोकः 1
तावच्छन्दः प्रक्रमे । तेषु पञ्चविंशतौ तत्त्वेषु सत्त्वं सुखलक्षणं, रजो दुःखलक्षणं, तमश्च मोहलचणमित्येवं प्रथमं तावगुणचयं ज्ञेयम् । तस्य गुणत्रयस्य कानि लिङ्गानीत्याह । “प्रसाद” इत्यादि । तत्सत्त्वादिगुणचयं क्रमेण प्रसादतापदेन्यादि5 कार्यलिङ्गम् । प्रसादः प्रसन्नता, तापः संतापः, दैन्यं दौनवचनादिहेतुर्विषणता । इन्हें प्रसादतापदैन्यानि तानि श्रादिः प्रकारो येषां कार्याणां तानि प्रसादतापदेन्यादीनि कार्याणि, लिङ्गं गमकं चिह्नं यस्य तत्प्रसादतापदेन्यादिकार्यलिङ्गम् । अयं भावः । प्रसादबुद्धिपाटवा लाघवप्रसवानभिष्वङ्गादेषप्रीत्या10 दयः कार्यं मत्वस्य लिङ्गम् । तापशोषभेदचलचित्ततास्तम्भोद्वेगाः कार्यं रजसो लिङ्गम् । दैन्यमोह मरणासादनवभिकाज्ञानागौरवादीनि कार्यं तमसो लिङ्गम् । एभिः कार्यः सत्त्वादीनि ज्ञायन्ते । तथाहि । लोके यः कश्चित्सुखमुपलभते स श्रार्जवमार्दव सत्यशौचौबुद्धिचमानुकम्पाप्रसादादिस्थानं भवति । तस 15 त्वम् । यः कश्चिद्दुःखमुपलभते स तदा द्वेषद्रोहमत्सरनिन्दावञ्चनबन्धजतापादिस्थानं भवति । तद्रजः । यः कश्चित्कदापि मोहं लभते, मो ऽज्ञानमदालस्यभयदे न्याकर्मण्यतानास्तिकताविषादोन्मादस्वप्नादिस्थानं भवति । तत्तम इति । सत्त्वादिभिश्च परस्परोपकारिभिस्त्रिभिरपि गुणैः सर्वं जगद्व्याप्तं विद्यते ; 20 परमूर्ध्वलोके प्रायो देवेषु मत्स्य बहुलता, अधोलोके तिर्यचु नारकेषु च तमोबडलता; नरेषु रजोबहुलता, यद्दुःखप्राया मानुष्या भवन्ति । यदुक्तम् [ सांख्यकारिका ५४ ] ।
ह