________________
घड्दर्शनसमुच्चयः सटीकः।
ततः प्रकृतेर्बुद्धिः संजायत उत्पद्यते, मा च गवादौ पुरो दृश्यमाने गौरेवायं नाश्वः, स्थाणुरेवायं न पुरुष इति विषयनिश्चयाध्यवसायरूपा । महानिति यका प्रोच्यते महदाख्यया याभिधीयते । बुद्धेश्य तस्या अष्टौ रूपाणि । धर्मज्ञानवैराग्यै5 ऋर्यरूपाणि चत्वारि मात्त्विकानि, अधर्मादौनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानौति । ततो ऽपि बुद्धेरण्यहंकारः स्थावुत्पद्यते । स चाहं सुभगः, अहं दर्शनीय इत्याद्यभिमानरूपः । तस्मादहङ्कारात्षोशडको गण उत्पद्यते । षोडशसंख्या
मानमस्य षोडशको गण: समुदायः ॥ 10 अथ षोडशसंख्यं गणं शोकदयेनाह ।
स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धौन्द्रियाण्यत्र तथा कर्मेन्द्रियाणि च ॥१८॥ पायूपस्थवच पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्च रूपादितन्माचाणोति षोडश ॥ ३६॥
15 युग्मम् ॥ स्पर्शनं त्वक्, रसनं जिका, घ्राणं नामिका,
चक्षुर्लोचनं, श्रोचं च श्रवणं पञ्चमम् । एतानि पञ्च बुद्धौन्द्रियाण्यत्र षोडशके गणे भवन्ति । खं खं विषयं बुध्यन्त इति कृत्वेन्द्रियाण्येव बुद्धौन्द्रियाणि प्रोयन्ते । तथाहि। स्पर्शनं स्पर्शविषयं बुध्यते, एवं रसनं रस, घ्राणं गन्ध, चचू रूपं, श्रीचं च 20 शब्दमिति। तथाशब्दः पञ्चेतिपदस्थानुकर्षणर्थः । पञ्चसंख्यानि