________________
प्रत्येतव्यौ, किन्तु लोक आकाशवद् व्यापकावेतन्नामानौ पदार्थों जैनप्रवचने प्रज्ञप्तौ । तत्सद्भावे किं प्रमाणमिति चेद्, आगम एव प्रमाणम् । खीकुर्वते हि सर्वेऽपि दार्शनिकाः स्वस्वाभिमतमागमं प्रमाणम् । न हि स्वर्गनरकाद्यतीन्द्रियपदार्थाभ्युपगम आगममन्तरेण वर्तते किञ्चिच्छरणम् । स्वर्गाद्यनुमापकान्यप्यनुमानप्रमाणानि न खातव्येण चित्ताश्वासहेतवः, किन्वागमप्रमाणस्य सकाशाल्लब्धप्रसादान्येव भवन्ति । ननु जैनदर्शनादन्यत्र न कापि दर्शने धर्माधर्मों पदार्थों खीचक्राते, ततः कथमागममात्रेण तत्राश्वाससम्भवः ? । युक्तिं हि काश्चिदाचक्षीतेति चेत् , तविधेयमिदम् । गतिलक्षणस्तावद् धर्मास्तिकायः । प्रमाणं चात्र गतिपरिणतयोर्जीवपुद्गलयोरलोके गमनविरहान्यथानुपपत्तिः । न चालोकाभिमुख्यविरहादेव तत्राऽगतिरिति वक्तव्यम् ; सिद्ध-परमाण्वादीनामलोकाभिमुखत्वात् । न च क्रियाविशेषे देशविशेषस्य हेतुत्वादलोकदेशस्य गत्यहेतुत्वेनैवोपपत्तौ व्यर्थी धर्माधर्मपरिकल्पनेति युक्तं वक्तुम्; सहकारिण एव तत्र विशेषकत्वात् । सहकारिणमन्तरेण केवलदेशत्वरूपेण हेतुताकल्पनायां मानाभावात् । स्थितिलक्षणोऽधर्मास्तिकायः । तत्रापि स्थितिपरिणतयोर्जीवपुद्गलयोरलोके स्थितिविरहान्यथानुपपत्तिः प्रमाणम् । अयं भावः । स्वभावतः संचरतां जीवपुद्गलानां पानीयमिव मीनानां धर्मास्तिकायः साहायकं करोति । अधर्मास्तिकायः पुनस्तेषामेव, मीनानां स्थलबत् पान्थानां छायावद् वा स्थितौ सहायो भवति । इदं तात्पयम्नातिस्थितिपरिणामे सत्येवैतौ सहायौ; अन्यथा जीवादीनां सदा गति-स्थितिप्रसङ्गात्; एतयोर्लोकव्यापिनोः सदा सत्त्वात् ।
इदं चात्र ध्येयम् । अर्हप्रवचने लोकोऽलोकश्चेति द्वौ प्रज्ञप्तौ ।