________________
तत्र लोकश्चतुदशरज्ज्वात्मको जीवाजीवैश्च संव्याप्तः । लोके पुनस्रयो विभागाः । ऊर्ध्वलोकोऽधोलोकस्तिर्यग्लोकश्च । ऊर्ध्वाधोलोकयोर्देवनारकनिवासः प्रागुक्त एव । तिर्यग्लोकः पुनरयं यत्राऽस्मदादयो वर्तन्ते । भारतवर्षादिक्षेत्रसमूहात्मको योजनशतसहस्रविष्कम्भो वृत्तो यस्य नाभौ मेरुर्वर्तते, एवम्भूतश्च जम्बूद्वीपः । असौ तद्विगुणविष्कम्भेण लवणसमुद्रेण परिवेष्टितः । एवंरीत्याऽसंख्येया द्वीपा उत्तरोत्तरसमुद्रेण परिवेष्टिताः । ते असंख्येया द्वीप-समुद्रा द्विद्विगुणविष्कम्भा वलयाकृतयो वेदितव्याः । अयं सर्वोऽपि तिर्यग्लोकः । इत्येवमुक्तो लोकः । अलोकः पुनः केवलाकाशात्मकः । अलोके हि जीवपुद्गला धर्माधौं च न सन्ति, किन्तु केवलमाकाशमेव । एवं च धर्माधर्मानभ्युपगमे लोकालोकव्यवस्था न स्यात् ; जीवपुद्गलानां सर्वत्राऽप्यस्खलद्गत्यादिसम्भवेनालोकत्वेनाभिमतस्यापि लोकत्वप्रसंगप्राप्तेः । धर्माधर्मसद्भावे तु यत्रैव लोके तौ स्तः, तत्रैव पुद्गलानां गत्यादिसम्भवात् तदन्यत्र जीवादिगमनाभावेन केवलाकाशरूपत्वप्राप्तेः सुतरामलोकत्वसिद्धिः । अलोकश्चानन्तः । सर्वव्यापि • सर्वाधारः स्वप्रतिष्ठमनन्तप्रदेशमाकाशं प्रसिद्धमेवे । दिक् तु नार्था
१ लोकस्य चतुर्दश भागाः क्रियन्ते, ते प्रत्येकं-रज्जुनाम्नोच्यन्ते ।
२ लोकसम्बद्ध आकाशो लोकाकाशः। अलोकसम्बद्ध आकाशोऽलोकाकाशः। एवं चैकमप्याकाशं धर्मास्तिकायादिसम्बन्धसत्त्वासत्त्वाभ्यां द्वेधा विभज्यते । आकाशं खल्ववकाशदम् । अलोके पुनर्जीवपुद्गलानामभावादवकाशदायित्वगुणश्वरितार्थो न भवत्याकाशस्य । न च तद्गुणस्याऽचारितार्थ्यऽलोकाकाशस्याकाशत्वं भज्येत । अलोकाकाशो ह्यवकाशं दातुं सर्वदा स्थित एव, परं तत्रावकाशग्राहकएव कश्चिन्न स्यात् तद्यस्य कोऽपराधः। यदि जीवादिपदार्था अलोकेऽभविष्यन्, अवश्यमसौ तेषामदास्यताऽवकाशम् । अतोऽवकाशग्राहकाभावकारणेनाचरितार्थनाप्यवकाशदत्वगुणेनालोकाकाशस्य सुस्थमाकाशवम् ।