________________
न्तरमाकाशात् । वर्तनादिलक्षणः कालः । वर्तना च नवपुराणादिप. रिणामः । तत्र चार्धतृतीयद्वीपसमुद्रान्तर्वति कालद्रव्यं हेतुः।
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । ते द्विधा । अणवः स्कन्धाश्च । तत्र स्कन्धात् पृथग्भूता अबद्धा अप्रदेशाः परमाणवः । द्वौ प्रदेशावारभ्य संख्येया असंख्येया यावदनन्ताश्च प्रदेशा यत्र सन्ति ते द्विप्रदेशिकाः संख्येयप्रदेशिका असंख्येयप्रदेशिका यावदनन्तप्रदेशिकाः स्कन्धा उच्यन्ते । अत्रेदं ज्ञेयम् । यो घटपटादिस्कन्धेषु सम्बद्धः परमोऽणुः स प्रदेश उच्यते । स्कन्धात् पृथग्भूतस्तु स एव परमाणुः । जीवादीनां प्रदेशास्तु जीवादिभ्योऽभिन्ना न पृथगू भवितुमर्हन्ति । यथा पृथग्भूतः केवलः परमाणुः स्वतनद्रव्यमेवाथ च स्कन्धसम्बन्धे सति प्रदेशशब्देन व्यपदिश्यते तथा जीवादिप्रदेशाः स्वतत्रतया द्रव्याणि न । अत एव पुद्गलप्रदेशेभ्यो जीवादिप्रदेशानां विजातीयत्वं विज्ञेयम् । अत एव च जीवादिप्रदेशाः परस्परं सम्बद्धा एकीभूता इव सर्वदाऽवतिष्ठन्ते । ___ उक्तोऽजीवपदार्थः । वस्तुत एतौ द्वावेव पदाौँ । नाभ्यामतिरिच्यते कश्चिदर्थः। ये च धर्माधर्माकाशकालपुद्गलजीवा उक्ताः, तानि षड्द्रव्याण्यपि पूर्वोक्तरीत्या जीवाजीवान्तर्भूतान्येव । यान्यपि पुण्यादितत्वानि दर्शयिष्यन्ते तान्यपि यथासम्भवं जीवाजीवयोरन्तर्भवन्ति न पृथग्भवितुमर्हन्ति । ज्ञानादिरूपादिगुणानामुत्क्षेपणादिकर्मणां च
१ जम्बूद्वीपः, तद्वेष्टको लवणोदधिः, तद्वेष्टको धातकीखण्डः, तत्परिवेष्टकः कालोदधिः, तद्वेष्टकस्य पुष्करावर्तस्याऽर्धभागः। एवं च द्वौ समुद्रौ, साधों द्वौ द्वीपौ; तथा चार्धस्तृतीयो द्वीपो ययोस्तावर्धतृतीयौ द्वीपौ तौ च समुद्रौ चार्धतृतीयद्वीपसमुद्रौ । इदमेव च नरक्षेत्रं पञ्चचत्वारिंशल्लक्षयोजनप्रमाणम् ।
२ आदिपदाद् धर्माधर्माकाशाः ।