________________
कश्चिदभेदेन जीवाजीवद्रव्यान सर्वथा पृथग्भावः साधीयान् । सामान्यविशेषावपि वस्तुस्वरूपावेव । समवायसम्बन्धोऽपि नैयायिकवैशेषिकाभिमतो न द्रव्याद् भेदेन स्थातुमर्हति । अभावं तु भावात्मकमाचक्षत एवाहताः। यदाङस्तार्किकसार्वभौमाः श्रीयशोविजयगगयो न्यायोलोके-'एवमप्यभावस्याधिकरणात्मत्वसिद्धिः । एवं च स्थितेऽपि द्वौं पदार्थाविति सिद्धान्ते गोबलीवर्दन्यायेन विशेषप्रतिपत्यर्थ संसारनैर्गुण्योपदर्शनद्वारेण निःश्रेयसमार्गसम्मुखीकरणाथै च युक्त एव पृथगुपन्यासः पुण्यादितत्त्वानाम् ।
तत्र पुण्यं वगैश्वर्यादिप्रशस्तफलसम्पादनप्रगुणाः प्रशस्ता जीवाभिसंसृष्टाः कर्मवर्गणोः । तद्विपरीतं पापम् । आश्रूयतेऽनेन कर्मलक्षणमुदकं जीवरूपतडागे इत्याश्रवः । कर्मोपादानहेतुरित्यर्थः । कर्मोपादानं च मिथ्यात्वाविरतिकषाययोगैर्भवति । तत्र मिथ्यात्वं वस्तुस्वरूपाद्विपरीतप्रतिभासः। हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो न विरतिरविरतिः। कषायाः क्रोधमानमायालोभाः। मनोवाक्कायव्यापारा योगाः । शुभा योगाः पुण्यस्य, अशुभा योगाः पापस्य हेतवोऽवसेयाः । संवरः पूर्वोक्तानां मिथ्यात्वादीनां कर्मोपादानहेतूनां निरोधः । अयमर्थः । यथा सरोवरोऽप्रतिरुद्धारैः प्रविष्टेन जलप्रवाहेण परिपूर्यते, प्रतिरुद्धेषु तु द्वारेषु मनागपि न तत्र जलप्रवेशः; यथा वा यानपात्रे रन्ध्रद्वारेण जलं प्रविशति, कृते तु रन्ध्रपिधाने न तत्प्रवेशः; एवंरीत्या आश्रवद्वारैरप्रतिरुद्धैः कर्मद्रव्यप्रवेश आत्मनि भवति, सम्यग्दर्शनविरतिक्षमादिगुप्तिभिश्च क्रमेण पूर्वोक्तानां मिथ्यात्वादीनामाश्रवद्वाराणां १ मुद्रितपुस्तके दशमपत्रे प्रथमपृष्ठ उपान्त्यपतौ । २ वर्गणा समुदायः। ३ आगम्यत आनीयत इति यावत् ।