________________
प्रतिरोधे कृते न मनागप्यात्मनि कर्मद्रव्यं प्रविशति । तथा हि । सम्यग्दर्शनेन पूर्वोक्तलक्षणमिथ्यात्वाद्विपरीतलक्षणेन मिथ्यात्वं निगृह्यते । हिंसादिविरत्या च तदविरतिः प्रतिरुध्यते । क्षमया क्रोधो मृदुत्वेन मान आर्जवभावेन माया संतोषेण च लोभः पराभूयते । मनोगुप्त्या मनोयोगनिग्रहः । वाग्गुप्त्या वाग्योगनिरोधः । कायगुप्त्या च काययोगप्रतिरोधः।
उक्तावाश्रवसंवरौ । निर्जरा तपसा कर्मनिर्जरणम् । देशतः कर्मोपक्षयः । अथ बन्धतत्त्वम् । अञ्जनचूर्णपूर्णसमुद्गकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यपुद्गलैरात्मनः क्षीरनीरवद् वह्नयःपिण्डवद् वान्योन्याभिसंश्लेषात्मकः सम्बन्धो बन्धः। स चतुर्धा-प्रकृतिः स्थितिरनुभागः प्रदेशश्च । तत्र प्रकृतिरष्टधा । ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयमायुष्कं नाम गोत्रमन्तरायं च । तत्र चक्षुरावारकपटादिवद् ज्ञानावारकं कर्म ज्ञानावरणम् । एतस्यैव कर्मणो महिना विदुषोऽपि कदाचित् स्मृतिभ्रंशादयो जायन्ते । यथा यथा परिपुष्टं भवत्येतत्कर्म, तथा तथा ज्ञानमात्रा हासमापद्यते । यथा यथा चेदं कर्म शिथिलीभवति, तथा तथा ज्ञानप्रकाशो विशेषतः प्रसरति । सामस्त्येन चास्य कर्मणः परिक्षये सकलपदार्थप्रकाशः प्रादुर्भवति । दर्शनावारकं कर्म दर्शनावरणम् । एतत्कर्मबलेन निद्रादयो भवन्ति । अन्धत्वषधिरत्वादिकमप्येतन्निबन्धनम् । सुखासुखजननस्वभावं कर्म वेदनीयम् । अत एव तत् सातवेदनीयमसातवेदनीयमिति द्वेधा । मदिरावद् मोहयमानं कर्म मोहनीयम् । यथा मदिरापानाद् विमूढीभूतः पुमांस्तत्त्वविवेकविकलो भवति, तथा मोहनीयकर्मणापि प्राणी सदसत्स्वरूपपरिज्ञानशून्यो भवति । एतद् द्विधा-दर्शनमोहनीयं चा