________________
१२
रित्रमोहनीयं च । प्रथमं त्रेधा मिथ्यात्वं सम्यक्त्वं मिश्रं च । तत्र प्रथमे द्वे प्रागुक्ते । मिश्रं पुनर्गुणस्थानक्रमारोद्दे श्रीरत्नशेखरसूरिराह" जात्यन्तरसमुद्धतिर्वडवाखरयोर्यथा ।
गुडदनोः समायोगे रसभेदान्तरं यथा” | " तथा धर्मद्वये श्रद्धा जायते समबुद्धितः । मिश्रोऽसौ भण्यते तस्माद्भावो जात्यन्तरात्मकः " ॥
अथवा नालिकेरद्वीपवासिनो मोदकादाविव सत्यमार्गे न रागो न च द्वेष इत्येवम्भूतो योऽध्यवसायः, तद् मिश्रमोहनीयमित्यप्याहुः । अयमत्र भावार्थ : —— मिथ्यात्वपुद्गलकदम्बकं मदनकोद्रवन्यायेन परिशोधितं सद् विकाराजनकत्वेन शुद्धं सम्यक्त्वमुच्यते । तदेव मिथ्यात्वपुद्गलकदम्बकं किञ्चिद्विकारजनकत्वेनार्धविशुद्धं सद् मिश्रमुच्यते । यदा तु सर्वथाऽप्यशुद्धं तत्, तदा मिध्यात्वमिति । चारित्रमोहनीयं पुनः क्रोधादिकषाय- हास्यादिनोकषायरूपम् । तत्र क्रोधादिकषायाश्चत्वारः प्रागुक्ताः । हास्यादयस्तु नव - हास्यं रतिररतिर्भयं शोको जुगुप्सा पुरुषवेद: स्त्रीवेदो नपुंसकवेदश्च । एते कषायसहचारित्वान्नोकषाया उच्यन्ते, नोशब्दस्य साहचर्यवचनत्वात् । कषायोद्दीपनाद्वा नोकषायाः । आयुष्कर्म सुरनरतिर्यङ्नरकायुर्भेदाच्चतुर्विधम् । नामकर्म समासतो द्विधा - शुभमशुभं च; व्यासतस्तु नानाविधम् । यथा चित्र - कृद् विविधं चित्रं निर्माति तथा नामकर्मापि अयं मनुष्योऽयं बलवानयं पशुरसौ निर्बलः स रूपवानेष कुरूपोऽसौ सुस्वरः स दुःखर इत्याद्यनेकप्रकारं विपरिणामं जीवेषूपजनयति । गोत्रं कर्म द्वेधा । उच्चगोत्रं नीचगोत्रं च । उच्चनीचगोत्रव्यवहार : सर्वत्र प्रकारान्तरेण
१ धर्मद्वय इति सत्यतत्त्वेऽसत्यतत्त्वे च ।