________________
१३
सम्भवति । अन्तरायं कर्म पभ्वधा । तत्र सत्यपि देये वस्तुनि, आगते च गुणवति पात्रे जानन्नपि दानफलं यदुद्द्यानोत्सहते दातुं तद्दानान्तरायम् । तथा विशिष्टेऽपि दातरि विद्यमानेऽपि च देये वस्तुनि या वाकुशलोऽपि याचको न लभते यदुद्द्यात्, तल्लाभान्तरायम् । यस्योदयात् सत्यपि विभवादौ सम्पद्यमानेऽपि चाहारमात्यादौ विरतिहीनोऽपि न भुङ्क्ते तद् भोगान्तरायम् । सदपि वस्त्राभरणादि नालमुपभोक्तुं यस्योदयात् तदुपभोगान्तरायम् । यदुदयाच्च बलवा - नीरोगोऽपि तृणकुब्जीकरणेऽप्यशक्तः स्यात् तद्वीर्यान्तरायम् ।
अथ केन प्रकारेण पूर्वोक्तं कर्माष्टकं बध्यते तदुपदर्श्यते । ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च दर्शनस्य दर्शनवतां दर्शनसाधनानां च मात्सर्याऽन्तरायोपघातादिकरणेन ज्ञानावरणदर्शनावरणयोर्बन्धः ।
दुःखशोक तापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसातवेदनीयस्य कर्मणो बन्धहेतवः । भूतानुकम्पादानक्षान्त्यादयः सातवेदनीयस्य । परमर्षीणां धर्मशास्त्रस्य देवतादीनां चावर्णवादो दर्शनमोहनीयस्य । कषायोदयात् तीव्रसंक्लिष्टपरिणामश्चारित्रमोहनीयस्य । बह्वारम्भपरिग्रहत्वं नारकस्यायुषः । माया तैर्यग्योनस्य । अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषायुषः । सरागसंयमदेशसंयमबालतपआदयो देवायुषः 1 मनोवाक्काययोगवक्रत्वपरप्रतारणादयो ऽशुभस्य नाम्नः । विपरीतं शुभनाम्नः । परनिन्दात्मश्लाघासदसद्गुणाच्छाद्
१. क्रियते, कषायादिदोषैः कर्मद्रव्यमात्मना बध्यते इति कर्म । तच्च पुद्गलरूपम् । अत एव निगडादिनेव कर्मणा बध्यते जीवः । नैयायिकास्तु जीवस्य गुणः कर्म, सौगताः वासनास्वरूपं कर्म, कापिलाः पुनः प्रकृतिविकारः कर्म । ब्रह्मवादिनश्चाविद्याखभावं कर्म, इति परिभाषन्ते । परन्तु पूर्वोक्ताऽनुभवेन पौगलिक रूपमेव कर्म, इति सिद्धान्त आर्हतानाम् ।