________________
नोद्भावने च नीचगोत्रस्य । विपरीताश्वोच्चगोत्रस्य । विघ्नकरणमन्तरायस्य । - उक्तः प्रकृतिबन्धः । स्थितिबन्धस्तु आत्मगृहीतानां कर्मपुद्गलानां स्थितिकालनियमनम् । आद्यानां तिसृणां कर्मप्रकृतीनामन्तरायस्य चोत्कृष्टा स्थितित्रिंशत्सागरोपमकोटीकोट्यः। सप्ततिसागरोपमकोटीकोट्यो मोहनीयस्य । नामगोत्रयोविंशतिः सागरोपमकोटीकोट्यः । आयुष्कस्य त्रयस्त्रिंशत्सागरोपमाणि । जघन्या स्थितिः पुनर्वेदनीयस्य द्वादश मुहूर्ताः। नामगोत्रयोरष्टौ । शेषाणामन्तर्मुहूर्तम् । कर्मपुद्गलानामेव शुभोऽशुभो वा घायघाती वा यो रसः स एवानुभागबन्धो वा रसबन्धो वा । कर्मपुद्गलानामेव स्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव यद् ग्रहणमसौ प्रदेशबन्धः। प्रकृतिस्थितिरसप्रदेशाश्च मोदकद्दाष्टन्तेन भाव्याः। तद्यथा । मोदको वातपित्तकफान्यतमविनाशिद्रव्योत्पन्नस्तदन्यतमं यथोपशमयति, एवं ज्ञानावरणादिकर्मणोऽपि ज्ञानाच्छादनस्वभावा प्रकृतिः । एवं शेषमप्यूह्यम् । स एव मोदको यथा मासं पक्षमेकदिनमपि वा तिष्ठति, तथैव कर्मणोऽपि ज्ञानावरणादेस्त्रिंशत्सागरोपमकोटीकोट्यादिः स्थितिः । रसः पुनर्मोदके स्निग्धमधुरादिरूप एकगुणो द्विगुणत्रिगुणोऽपि वा भवति, तथैव कर्मणोऽप्येकस्थानिकद्विस्थानिकत्रिस्थानिकादिरूपः । प्रदेशा यथा मोदका
- १ सागरोपमोऽतिदीर्घतमः कालविशेषः । अस्य खरूपं पश्चमकर्मग्रन्थे देवेन्द्रसूरिनिर्मिते द्रष्टव्यम् ।
२ कोच्या गुणिता कोटी कोटीकोटी। . ३ अतिसूक्ष्मतमः कालः समयशब्देनोच्यते, यस्मात् सूक्ष्मसमयो नास्ति । नवभ्यः समयेभ्य एकसमयोनमुहूर्तान्तं यावदन्तमुहूर्त भवति ।