________________
एकप्रमृतिप्रमाणाः प्रसूतिद्वय-त्रय-सेतिकादिप्रमाणा वा भवन्ति, तथा कर्मण्यप्यल्पबहुबहुतमादिरूपा वेदितव्याः। ___ नवमं तत्त्वं मोक्षः । सकलकर्मक्षयो मोक्षः । स च केवलज्ञाने सत्येव । केवलज्ञानं च ज्ञानावरणदर्शनावरणान्तरायाणां मोहनीयकर्मप्रक्षयादनु प्रक्षये जाते प्रादुर्भवति । एतत्कर्मचतुष्काच्छेषं कर्मचतुष्कमघातिशब्देनोच्यते । अघातिकर्माणि भवाधारत्वाद्भवोपग्राहिशब्देन व्यपदिष्टानि । सत्स्वेतेषु हि भवरूपः प्रासादोऽवतिष्ठते । एषां च प्रक्षये स प्रासादस्तक्षणमेव भज्यते । __केवलज्ञानिनो द्वेधा-तीर्थङ्कराः सामान्यकेवलिनश्च । येषां तीर्थकरनामकर्मोदयो नास्ति ते केवलिनः सामान्यकेवलिन उच्यन्ते । ये तु तीर्थकरनामकर्मोदययुक्ताः, ते तीर्थक्करा ईश्वराः परमेश्वराः । तीर्थ प्रवचनं तत्प्रकाशकत्वात् तीर्थकरत्वम् ; तीर्थ साधुसाध्वीश्रावकाविकालक्षणश्चतुर्विधः सङ्घः, तत्स्थापकत्वाद्वा तीर्थकरत्वम् । तीर्थकराश्च तीर्थकरनामकर्मोदयमहिना परमातिशयसाम्राज्यचमत्कृतसकलसुरासुरनरेन्द्रयोगीन्द्राः देवेन्द्ररहमहमिकया परिषेव्यमाणा धर्मदेशनाद्वारेण जगजनाननुगृह्णन्ति । एतेषां परमात्मनां शिष्यीभूयैतेषामुपदेशमवलम्ब्य ये महाप्राज्ञा विशिष्टशक्तिसम्पन्नाः परमपुण्यभाजो द्वादशाङ्गी प्रथ्नन्ति, ते गणधरा उच्यन्ते । अङ्गानि चामूनि-आचाराझं सूत्रकृताङ्गं स्थानाङ्गं समवायाङ्ग भगवती ज्ञातधर्मकथोपासकदशाऽन्तकृद्दशाऽनुत्तरोपपातिकदशा प्रश्नव्याकरणं विपाको दृष्टिवादश्चेति । तत्र दृष्टिवादो व्यवच्छिन्नः । शेषाणि चाङ्गानि तत्कालापेक्षया सङ्क्षिप्तानि वर्तन्ते सम्प्रति । अन्यान्यप्युपाङ्गादीनि बहून्यागमशास्त्राणि गणधरशिष्य-प्रशिष्यगुम्फितानि सन्ति वर्तमाने ।
स च केवली भगवान् आयुःसमाप्तौ सत्यामघातिकर्मप्रक्षय एव