SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ देहपजरान्निर्गत्य समश्रेण्यो याति यावल्लोकान्तमेकसमयेन; तथाखाभाव्यात् । लोकान्तात् परतो धर्मास्तिकायाभावान गमनसम्भवः । कोकान्तादधःपातोऽपि गुरुत्वाभावादसम्भवः। प्रेरकाभावाञ्च तिर्यग्गतिरप्यसम्भविनी । ऊर्ध्वमधस्तिर्यग्गमनं हि जीवानां कर्मजन्यम् । क्षीणसकलकर्मणां पूर्णब्रह्मणां सिद्धानां तु स्वभावत एवोर्ध्वगतिः । ते सिद्धाः कुत्र समवस्थिताः ? इत्यत्राह भगवानुमास्वातिस्तत्त्वार्थसूत्रपर्यन्ते "मनोज्ञा सुरभिस्तन्वी पुण्या परमभासुरा । प्राग्भारा नाम वसुधा लोकमूर्ध्नि व्यवस्थिता” ॥ "नृक्षेत्रतुल्यविष्कम्भा सितच्छत्रनिभा शुभा। ऊर्ध्व तस्याः क्षितेः सिद्धा लोकान्ते समवस्थिताः" ॥ घातिकर्मचतुष्कप्रक्षये क्रमतश्चत्वारोऽक्षय्याः सदावस्थायिनो गुणाः सम्पद्यन्ते । तथा हि । ज्ञानावरणविध्वंसे केवलज्ञानं दर्शनावरणविनाशे केवलदर्शनं मोहनीयनिर्घाते परमोज्ज्वलं चारित्रम् अन्तरायप्रक्षये अनन्तवीर्यम्। एते गुणास्तु जीवन्मुक्तानां देहवतां प्रत्यक्षीकारनिर्देश्यानां परमात्मनां घातिकर्मप्रक्षयसमुत्थाः सम्भवन्त्येव । आयु:समाप्तौ चाघातिकर्मप्रक्षयजन्या अन्ये पुनरनन्तसुखादिगुणा अमीषां प्रादुर्भवन्ति । मुक्तीभूतानां भगवतां परब्रह्मणां देहेन्द्रियाद्यभावाद् ऐन्द्रियकसुखासम्भवेऽप्यात्मस्वभावं सुखमाविर्भवति। तस्यानन्तभागेऽपि सकलभुवनेन्द्राणामैश्वर्यसुखमहाकरो नोपपद्यते । अकर्मकीभूतः परमात्मा न पुनः कर्मवानर्हति भवितुम् । न हि क्षीरात् समुद्धृतमाज्यं पुनः क्षीरतां व्रजति । यथा च रसेन्द्रेण नीताः शातकुम्भतां धातवो न पुनरावृत्तये भवन्ति, एवमकर्मकीभूतो निरखनः सिद्धो न भवेत् पुनः कथमपि कर्मवान् । एतेनेदमपि प्रज्ञप्तं
SR No.022453
Book TitleJain Tattvagyanam
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherPremchand Ratnaji
Publication Year
Total Pages22
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy