________________
नातस्तत्सम्बन्धेऽपि चेतनोद्भवो युक्तिमान् । मदशक्तिदृष्टान्तोऽप्ययुक्तः, मदशक्तेरचेतनत्वेनाचेतनेभ्यः पिष्टोदकादिभ्य उत्पादस्य युक्तखेऽपि जडेभ्यो भूतेभ्यश्चैतन्यशक्त्युत्पादस्याऽसिद्धेः । एतेन देहामनोरक्याभिमानोऽपि प्रत्युक्तः । मृतदेहे चेतनानुपलम्भात् । इन्द्रियाण्येवात्मेत्यपि न युक्तम् ; चक्षुर्दृष्टस्यार्थस्य चक्षुर्व्यपगमे स्मरणानुपपत्तेः । न हि चक्षुद्देष्टमर्थमन्यदिन्द्रियं क्षमते स्मर्तुम् ; अन्यदृष्टस्यार्थस्यान्येन स्मरणायोगात् । तस्माद् इन्द्रियव्यतिरिक्तममुमेकं पदार्थमभ्युपगन्तुमर्हन्ति प्रेक्षावन्तः, यो हि ज्ञानस्वरूपो येन च प्रेरितानि करणानि स्वखविषयं परिच्छेत्तुं प्रभवन्ति, यः पुनरेकस्येन्द्रियस्य व्यपगमेऽपि तदुपलब्धमर्थ स्मृतिविषयीकरोति; स एव देहादिव्यतिरिक्तो जीवपदार्थः । उक्तं च न्यायदर्शने गौतमीये तृतीयाध्यायस्य प्रथमाह्निके प्रथमसूत्रम्-"दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्"। ___ उक्तो जीवः । अथाजीवतत्त्वव्याख्यावसरः । अजीवस्य लक्षणं चेतनात्यन्ताभावः । जडोऽचेतनोऽजीव इति चानान्तरम् । स च पञ्चधा-धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः पुद्गलास्तिकायः कालश्च । अत्रास्तिकायो नाम प्रदेशसमूहात्मकः । प्रदेशसमूहात्मकाः पदार्थाः पञ्चैव सन्ति-जीवो धर्मोऽधर्म आकाशं पुद्गलश्च । तत्र प्रत्येकं जीवस्यासंख्येयाः प्रदेशाः, एतावन्तश्च धर्मस्याऽधर्मस्य च । आकाशस्याऽनन्ताः प्रदेशाः । पुद्गलस्य पुनः संख्येया असंख्येया अनन्ताश्च । कालस्तु प्रदेशरहितः; अनागतस्य कालस्याऽनुत्पन्नत्वाद्, उत्पन्नस्य च विनष्टत्वाद्, वर्तमानस्य च समयस्य प्रदेशराहित्यात् । एवं च पञ्चास्तिकाया ज्ञेयाः। तदात्मकोऽयं लोकः । अत्र धर्माधौं न पुण्यपापरूपौ शुभाशुभरूपौ जीवसम्बद्धाऽदृष्टरूपौ वा