________________
नाभसमपि जलं सात्मकम् ; अभ्रादिविकारे स्वत्तः सम्भूय पाताद्, मीनादिवत् । तेजः सात्मकम्, आहारोपादानात् तद्वृद्धौ विकारविशेषोपलब्धेश्च, नरवत् । सचेतनो वायुः, अन्यप्रेरितत्वे सति तिर्यग्गतिमत्त्वाद् गोवत् — इत्यादिप्रमाणबलेनागमवचनाच्च सचेतनतां कक्षीकुर्वन्ति धीराः ।
ये तु जीवपदार्थमेव नेच्छन्ति तेषां बन्धमोक्षादिव्यवस्थानुपपत्तिः । इष्टापत्तौ जगद्वैचित्र्यं कस्माच्छक्येतोपपादयितुम् । एको राजा एको रकः, कश्चिद् धनी कश्चिद् दरिद्रः, अन्यो नीरोगः परो रोगी, अपरः प्रज्ञावान् इतरोऽतिस्थूलमतिः; इत्याद्येवमनन्तविश्ववैचित्र्यं जीवपदार्थमपले पुषामशक्यं साधयितुम् । आत्माभिसंश्लिष्टकर्मवैचित्र्यव्यतिरेकेण तदनुपपत्तेः । यदाह प्रथमकर्मग्रन्थे प्रथमगाथावृत्तौ श्रीमान् देवेन्द्रसूरिः——
"क्ष्माभृद्रङ्ककयोर्मनीषिजडयोः सद्रूपनीरूपयोः श्रीमद्दुर्गतयोर्बलाबलवतोर्नीरोगरोगार्तयोः ः।
सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्येऽपि नृत्वेऽन्तरं
यत्तत्कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् " ॥ १॥
ननु पृथिव्यादिभूतेभ्यो गुडपिष्टोदकादिभ्यो मदशक्तिरिव चेतना समुद्भवतीति मतं तदपि न विचारसहम् । अचेतनेभ्यो भूतेभ्योतनोत्पत्तिविरोधात् । अन्यथा घटादीनामपि सचेतनत्वप्रसक्तेः । पृथिव्यादिचतुष्टयस्य विशिष्टाभिसम्बन्धे सति चेतनाविर्भाव इति चेन्न; यो येषां न धर्मस्तेषां सत्यपि सम्बन्धे तद्धर्मप्रादुर्भावाभावात् । प्रत्यक्षसिद्धो ह्ययमर्थः । न हि तिलव्यतिरिक्तेभ्यः केभ्यश्चिदपि तैलप्रादुर्भावः । नास्ति च पृथिव्यादिः प्रत्येकं चेतनाधर्मवान्,
.