________________
जीवानां शरीरं पश्वधा - औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च । तत्र प्रथमं मनुष्यपश्वादीनां सर्वेषां देवनारकव्यतिरिक्ता - नाम् । वैक्रियं च न्हस्वदीर्घदृश्याऽदृश्यभूचरखेचराविनानाविधरूपकरणसमर्थ भव ( जन्म ) स्वभावतो देवानां नारकाणां च । तथाविधशक्तिमहिम्ना मनुष्यादेरपि । आहारकं वपुश्चेतुर्दशपूर्व विद्याबलेन सकलपदार्थान् समधिगच्छतां महापुरुषाणां परमर्षीणां भवति । एतेन च जीवन्मुक्तानां देहवतां सर्वज्ञपरमात्मनां पुरस्सरं प्रेषितेन सूक्ष्मार्थसन्देहापगमो भगवन्महर्द्धिदर्शनं च शक्यते कर्तुम् । तैजसकार्मणे च सर्वस्य संसारिजीवस्य भवतः । तैजसेन भुक्ताहारपरिपाकादिकार्यं भवति । कार्मणं शरीरं पुनः क्षीरनीरवद् अन्योन्यं परिश्लिष्टा जीवप्रदेशैः कर्मप्रदेशा एव । एतद्बलेन जीवस्य भवान्तरे गतिर्भवति ।
1
तथाविधानां पृथिव्यादीनां सचेतनत्वं दुर्गममपि युक्ति - शास्त्रबलेन शक्यते प्रतिपत्तुम् । तत्र वनस्पतेस्तावत् सचेतनत्वं स्फुटत्वात् समर्थ्यते । मूले सिक्तेषु तरुषु यो रसः फलादिषु स्फुटतया परिदृश्यते, असौ नोच्छ्रासमन्तरेणोर्ध्वं प्रसप्र्तुमर्हति; अस्मदादिषूच्छ्वासे सत्येव रसप्रसर्पणोपलम्भात् । मृत्तिकादावुच्छ्वासाभावे रसप्रसर्पणाभावाच । तस्माद् रसप्रसर्पणेनाक्षिप्यमाण उच्छ्वासस्तरुषु निःसन्देहं सात्मकत्वं प्रसाधयति । एवं नृणामिव द्रणामपि दोहदोत्पत्तिदर्शनात् संकोचविकासादिसंज्ञाबलाच्च वनस्पतीनां चेतनावत्त्वं सुश्रद्धानम् । पृथिव्यादीनामपि सात्मिका पृथ्वी विद्रुमशिलादिरूपा, छिन्नाया अप्यस्याः पुनस्तत्स्थान एव समानजातीयाङ्कुरोत्थानाद्, अर्शोऽङ्कुरवत् । भौममम्भः सचेतनं क्षतभूसजातीयस्य स्वभावस्य सम्भवाद्, दर्दुरवत् ।
१ दृष्टिवादो नाम शास्त्रमासीत् । तस्य चतुर्दशपूर्वात्मको विभागः ।