________________
चैतन्यमप्राप्तानां पृथिव्यादीनां पञ्चानां त्वगिन्द्रियस्यैव सद्भावेनैकेन्द्रियत्वम् । एते चैकेन्द्रियाः प्रत्येकं द्वेधा, सूक्ष्मा बादराश्च । सूक्ष्माख्यनामकर्मोदयात् सूक्ष्माः । ते च सकललोकव्यापिनः । सकललोकाकाशस्तै वैः परिपूरित आस्त इत्यर्थः । बादराख्यनामकर्मोदयाद् बादराः । ते च प्रतिनियतस्थलवर्तिनो गम्याः । तत्र सूक्ष्मत्वं प्रतीतम् । बादरत्वं च स्थूलत्वम् । स्पर्शनरसनेन्द्रियाभ्यां द्वीन्द्रियाः कृमिपूतरकचन्दनकशङ्खकपर्दजलौकाप्रभृतयः। स्पर्शनरसनघ्राणैस्त्रीन्द्रिया कुन्थुमत्कुणयूकामत्कोटकेन्द्रगोपकादयः । स्पर्शनरसनघ्राणनेत्रैश्चतुरिन्द्रिया भ्रमरमक्षिकामशकवृश्चिकप्रमुखाः। स्पर्शनरसनघ्राणनेत्रश्रोत्रैः पञ्चेन्द्रियाश्चतुर्धा, तिर्यञ्चो मनुष्या नारका देवाश्च । तत्राऽद्या मीनभकरगजसारसहंसादयः । मनुष्या: प्रतीताः । नारका अधोलोकवर्तिनः । देवाः प्राधान्येनोर्ध्वलोकवर्तिनः । केचिद् भवनपत्यादयो देवा अधोलोकेऽपि । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां त्रयाणां विकलेन्द्रियसंज्ञास्ति ।
एकेन्द्रिया विकलेन्द्रियाश्च विशिष्टमनोज्ञानरहितत्वेनासंज्ञिन उच्यन्ते; यस्मात् ते सम्मूर्च्छिमाः, गर्भजत्वाभावात् । देवा नारकाश्वोपपातजा उक्ताः । देवा हि देवशय्याभ्यन्तर उपपतन्ति । नारकाच वजकुब्यस्थवातायनसदृशनिष्कुटेषु । तिर्यक्षु च केचिद् गर्भजाः केचित् सम्मूछिमाश्च । मनुष्यास्तु गर्भजाः । ये तु श्लेष्मादिषु गर्भजमनुष्यसम्बन्धिषु धर्मचक्षुरदृश्या अन्तर्मुहूर्तभवस्थितिका मनुष्यजातीया उत्पद्यन्ते ते सम्मूच्छिमा एव । देवगतौ देवा देव्यश्च सन्ति, न कश्चिनपुंसकः । नारकाः सम्मूच्छिमाश्च नपुंसका एव । सम्मूछिमव्यतिरिक्ताश्च तिर्यञ्चो मनुष्याश्च पुंस्त्रीनपुंसकाः।। १ सूक्ष्मबादरनामधेये कर्मणी वक्ष्यमाणाष्टविधकर्माऽन्तर्गतनामकर्मभेदी ।