________________
चामूनि । जीवोऽजीवः पुण्यं पापमाश्रवः संवरो निर्जरा बन्धो मोक्षश्चेति । यदाह जैनागमः श्रीसूत्रकृताङ्गसूत्रम्
"नत्थि जीवा अजीवा वा णेवं सन्नं निवेसए ।
अस्थि जीवा अजीवा वा एवं सन्नं निवेसए" ॥ तत्र चेतनालक्षणो जीवः । चैतन्यं ज्ञानमुपयोग इति हि पर्यायाः; सर्वत्रापि चेतनावत एव जीवस्य भावात् , चेतनाया जीवस्वरूपत्वात् , जडमात्रस्य चेतनाराहित्याच्च । अनेनैव जड़-चेतनयोमुख्यत्वेन भेदसिद्धिः । ज्ञानरूपत्वेऽपि जीवस्य यन्न भवति सकलवस्तुविषयक आलोकस्तत्रेदं कारणं वेदितव्यम्-अनादिकालविपरिवर्तमानविविधकर्मसन्ततिभिः सामस्त्येन सम्बद्ध एव जीवः; एताभिश्च कर्मसन्ततिभिः समाच्छादितत्वान्न शक्नोति समस्तपदार्थान् साक्षात्कर्तुम् । तदुक्त
"न सर्वमपि वेत्त्येष प्राणी कर्मावृतो यथा ।
नार्कस्याऽभ्राभिभूतस्य प्रसरन्त्यभितः प्रभाः" ॥ तथा च कर्मप्रतिबन्धराहित्य एव सति निरभ्रदिनकर इव सर्वत्र प्रकाशमयो भवितुमर्हति जीवः ।
तत्र जीवा द्विविधाः, मुक्ताः संसारिणश्च । मुक्ताः सकलकर्मपरिक्षयेण सिद्धनिरञ्जनपरब्रह्मस्वरूपं प्राप्ताः । संसारिणः पुनः कर्मप्रतिबद्धाः । तेऽपि द्वेधा, स्थावरास्त्रसाश्च । तत्र स्थावराः पृथ्वीजलतेजोवायुवनस्पतिभेदभिन्नाः पञ्चधा । सा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियभेदैश्चतुर्धा । तत्र घर्षणच्छेदनादिमिर
१ इत्यादिगाथाकदम्बकं द्वितीयश्रुतस्कन्धे पञ्चमाध्ययने। २ श्रीविनयविजयोपाध्यायकृतलोकप्रकाशे द्रव्यलोके द्वितीयसर्गे ७० ।
उम्