________________
निरूपणम्]
___टीकात्रयोपेता अभिवन्द्य विधोरर्द्धधारिणश्च कणव्रतम् । '
प्रमाणमञ्जरी सेर्वदेवेन क्रियते मया ॥२॥ [ब. टी. ] बहुतरविघ्ननिवारणाय विद्याधिष्ठातारमीश्वरम् एतच्छास्त्रप्रणेतृकणादमुनिश्च नमन् अभिधेयं निर्दिशति-अभिवन्द्येति । प्रमाणं प्रकृतं शास्त्रम् । तत् पादपस्थानीयम् । तस्येयं मञ्जरी वल्लरी अभिनवपल्लवस्थानीयेति भावः।
[अ. टी.] इदानीं विद्याधिपतिमीश्वरं प्रवर्तनीयविद्यास्वातच्याय कणादमुनिश्च तदीयशास्त्रसारोद्धाराच्चतुरप्रक्रियायां वाक्चेतसोरस्खलनार्थं प्रणमन् यदुद्दिश्य मङ्गलाचरणं कृतं तन्निर्दिशति-अभिवन्द्येति । विधुश्चन्द्रः। प्रमाणं तर्कशास्त्रम् । तच बुद्धिस्थं काणादम् । तस्य मजरी वल्लरी कल्पपादपस्थानीयशास्त्रस्याभिनवपल्लवस्थानीयेयं प्रक्रियेत्यर्थः । ननु किमत्र प्रतिपाद्यम् ? भावाभावपदार्थों चेत्-गौतमतत्रेण गतार्थता, तत्रापि प्रमाणादिभावाभावपदार्थवर्णनं दृश्यते यतः । सत्यम् ; तथापि षडेव भावाः, द्वे एव प्रमाणे इत्यादि महत्तरावान्तरभेदेनापुनरर्थता। अन्यथैकस्मिंस्तत्रे स्वमतशुद्ध्यर्थं सर्वतत्रार्थोपन्यासादन्यानारम्भप्रसङ्गात्, तदनारम्भे च सर्व स्वतत्रमेवेति पूर्वपक्षसिद्धान्तभेदेना? ग्राह्यमद्धमग्राह्यमित्यर्द्धजरतीयन्यायेनाप्रामाण्यप्रसङ्गादेकमपि तत्रं नौरभ्येत । अतो वैशेषिकतत्रारम्भसिद्धौ. तत्प्रकरणारम्भोऽपि निश्चलः ।
[वा. टी.] ईश्वराज्ज्ञानमिच्छेत्' इत्यादिस्मृतेरीश्वरस्यापि विद्याप्राप्तावतिशयगत्वावगमात्तं नमन् कणादशास्त्रप्रकरणं चिकीर्षुराचार्यस्तच्छास्त्रप्रणेतारं कणादनामानञ्च मुनि नमन् चिकीर्षितं प्रतिजानाति-अभिवन्द्येति । विधुश्चन्द्रः । अर्द्धशब्दश्चात्र कलामात्रवाची.........त्युक्त्वा क्रियमाणस्य निर्दोषत्वं सूचितम् । प्रमाणमञ्जरीति ग्रन्थनाम । निश्चीयन्तेऽर्था अनेनेति प्रमाणमिति प्रमाणशब्दप्रतिपाद्यस्य बुद्धिस्थकणादशास्त्रस्य कल्पपादपत्वेनाभिमतस्याभिनवप्रवालशाखास्थानीयेयं कृतिरिति ग्रन्थकृदाशयः । अनेन श्रोतृप्रवृत्त्यङ्गभूतमेतद्न्थावान्तरविषयादिकमपि सूचितम्-खपदार्थ तद्भानतत्कामादि।
(पदार्थलक्षणं तद्विभागश्च ) अभिधेयः पदार्थः। स भावाभावभेदेन द्विधौ पूर्वो विधिविषयः । स षोढा, द्रव्यादिभेदेन ।
१ अर्ध इति मु. २शर्वदेव. इति. मु. पा. ३ निवर्तनायेति च. ४ वल्लरीति नास्ति छ, ५ यदर्थमिति ज. ट. ६ कृतमिति नास्ति ज. ट. ७. पदार्थों इति नास्ति झ. ८ यत इति नास्ति झ. ९ मेदादगतार्थतेति ज. ट. १० त्याज्यमिति झ. ११ नारभेत इति झ. १२ निश्चित इति ट. १३ रेभाव इति ख. १४ भेदादिति क. ख. १५ द्वेधा इति ख. १६ पूर्व इति ख.