________________
प्रमाणमसरी
[द्रव्यअद्वयानुभवाचार्यपरिचर्याविधायिना । प्रमाणमञ्जरीव्याख्या मुनिना सम्प्रणीयते ॥२॥ से श्रीमानद्वयारण्यस्सुखबोधाय धीमताम् ।
प्रमाणमञ्जरीटीका सन्ददर्भ नवामिमाम् ॥३॥ विद्यारम्भे मङ्गलमाचरणीयम् , "स्वस्ति न इन्द्रो वृद्धश्रवाः" इत्यादिवैदिकमङ्गलाच्छिष्टैरनुष्ठितत्वाच नास्ति तेषाममङ्गलमिति देवतानुस्मृतिलक्षणक्रियाजनितधर्मस्य "सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः" इति शास्त्रसिद्धारम्भदोषनिवर्तकत्वात् “धर्मेण पापमपनुदति" इति श्रुतेश्च । ततस्सप्रमाणकत्वात्सप्रयोजनत्वाच्च ग्रन्थारम्भे मङ्गलमाचरतिकासारेति । द्वैमातुर इत्यत्रं मातृशब्दगतस्य ऋ इति स्वरस्य अणि प्रत्यये उरि (उदि?). त्यादेशविधानात् द्रुयोर्मात्रोरपत्यं गजाननस्तद्वैमातुर इति पदं निष्पद्यते, ऋ उरणीत्यनुस्मरणात् । द्वैमातुरो गणेशः भवतः श्रोतॄन् चिरतरं कालं पायात् रक्षतात् , "स्वस्ति वः पाराय तमसः परस्तात्" इति श्रोतृन् प्रत्याशी श्रुतेश्च । स प्रसिद्धो यस्माद्विघ्नभ्यस्त्राणहेतुत्वेन देवतापि हृष्टाकारणानुस्मृता कार्यकरीति द्योतयितुमाह-सञ्जातेति। सञ्जातमभिनवं संस्कृतं चन्दनादिना विमलं यद्गङ्गाजलं तस्मिन् प्रतिबद्धम् अन्वारब्धं नर्म क्रीडा येन स तथा । जलक्रीडोचितव्यापारमाह-कासारेति । कासारः कानां जलानामासरणमागमनं यत्र स तडागः कासार इत्युच्यते मानसादिसमाह्वयः । तस्य तीरसमीपस्थं सरसीरुहं कमलम् । तच्च शुभ्रं पाण्डुरं भ्रमरमध्यं मध्ये भ्रमरेणाकान्तम् आददानः ऑहरन् आकर्षन् शुण्डादण्डेन तेन भ्रमत्कम्पमानम् । एवमेकं ध्यानमुक्त्वोपमानच्छलेन ध्यानान्तरमाह-इन्दुबिम्बमिवेति । गगने कासारवत्र्येणाङ्कमण्डलवद्विराजमानमित्यर्थः । नभसि नाट्याँसक्तः चन्द्रमण्डलं करेणाकर्षन् ध्येयो विघ्नराज इत्यर्थाच्छात्रेभ्यो ध्यानोपदेशोऽपि ग्रन्थप्रचारणे निर्विघ्नत्वाय ।
श्रीवामनभट्टविरचिता भावदीपिकाव्याख्या . [वा. टी. ] पुरन्दरदलन्नेत्ररत्ननीराजनीकृतम् । वन्दे लम्बोदरोदारपदद्वन्द्वसरोरुहम् ॥ १ ॥
भट्टवामनसंज्ञेन तुलसीकृष्णसूनुना । प्रमाणमञ्जरीव्याख्या क्रियते भावदीपिका ॥२॥ विशिष्टशिष्टाचारप्रमाणकं प्रारीप्सितग्रन्थस्याविघ्नपरिसमाप्तिप्रयोजनवद्विशिष्टेष्टदेवतानुस्मृतिपूर्वकमाशीर्लक्षणं मङ्गलमाचरति-कासारेति । चन्दनादिसंस्कृतानाविलजलजातखेलो गणपतिः । सितमन्तभ्रमविरेफम् । अत एवैणाङ्कबिम्बमिव जलाशयतीरपुण्डरीकं गृह्णन् भवतश्विरतरं पालयतु । अनेन हृष्टा चिन्तिता देवता कार्यकरीति इष्टप्रदत्वं सूचितम् ।
१ पद्यमिदं ज. झ. पुस्तकयो स्ति. २ विनिवर्तकेति ज. ट. ३ चेति नास्ति ज. ट. ४ प्रमाणत्वादिति ज. ट. ५ इत्यत्रेति नास्ति ज. ट, ६ शब्दस्येति ज. ट. ७ द्वे मातरौ यस्य स द्विमातुर इति ज., द्वे मातरौ यस्य गजाननस्य तदपत्यत्वात्स द्वैमातुर इति ट. ८अन्विति नास्ति ज. ट. ९ यावदिति ट. १० रक्षतादिति नास्ति ट. ११ कर्तृत्वेनेति ज. ट.. १२ गङ्गादीति ज. ट. १३ कासार इति नास्ति झ. १४ इतीति नास्ति ज. ट. १५ ाहरनिति नास्ति ज. १६ तेनेति नास्ति झ. १७ कासारवणेति झ. ट. १८ मण्डलमिवेति ट. १९ संसक्तमित्येव झ..