________________
तार्किकचूडामणि -श्रीसर्वदेव - विरचिता
प्रमाण मञ्जरी
कासारतीरसरसीरहमाददानः शुभ्रं भ्रमभमरमध्यमिवेन्दुबिम्बम् । द्वैमातुरश्चिरतरं भवतस्स पायात् सञ्जातनिर्मलजलप्रतिबद्धना ॥१॥
श्रीबलभद्रविरचिता टीका [ब. टी.] नत्वा हरिपदं मत्वा गुरोरथं प्रयत्नतः।
प्रमाणमञ्जरीटीका बलभद्रेण तन्यते ॥१॥ निर्विघ्नन्थपरिसमाप्तिकामनया कृतं मङ्गलं शिष्यशिक्षायै निबध्नातिकासारेति । द्वैमातुरः द्वे मातरौ अस्य स तथा गणेशः भवतः श्रोतॄन् चिरं पायात्, स विघ्नसंहारकत्वेन यतः प्रसिद्धः । स्तुतिरूपं मङ्गलमाचरति-सञ्जातेति । एतावता हर्षविशिष्टतया स्मृता देवता फलं ददातीति द्योतितम् । सज्जातम् अभिनवम् । यद्वा सञ्जातं चन्दनादिना संस्कृतम्, एतादृशं यजलं तत्रारब्धं नर्म क्रीडा येन । जलक्रीडायां यदुचितं तदाह-कासारेति । कानां जलानाम् आसारः आगमनं यत्र स कासारः तडागः । यद्वा ईषदासारः कासारः अल्पसरः, अल्पसरसि एतत्तीरसमीपजातं यत्सरसीरुहं कमलम् । कीदृशम् ? शुभ्रम् । पुनः कीदृशम् ? भ्रमझमरमध्यं मध्ये भ्रमरेणाक्रान्तम् । आददान: शुण्डादण्डेनाकर्षन् । आदधान इति पाठे बिभ्रदित्यर्थः । भ्रमत् कम्पमान, यद्वा भ्रमद्भमरमध्यमित्येकमेवं पदम्, भ्रमत्क्रियाविशेषविशिष्टो भ्रमरी यत्र तद्भमद्भमरं तादृशं मध्यं यस्य तत्तथा । केचित्तु ध्यानरूपमेव मङ्गलं शिष्यायोपदिष्टमुपमानवलेन उत्प्रेक्षाबलेन वा ध्यानान्तरमाह-इन्दुबिम्बमिवेत्याहुः । एतावता गगने नाट्यासक्तो विघ्नराजः करेण शशिमण्डलं कर्षन् ध्येय इति भावः । केचित्तु ध्यानं यद्यपि मङ्गलं न भवति, तथापि प्रायश्चित्तवदुरितनिवर्तकं भवतीत्याहुः ।
___..-..-- श्रीमद्वयारण्यविरचिता टीका [अ. टी.] हेरम्ब संहर विभो तरसान्तरायवर्ग न भर्गतनयात्र तवोपचारः ।
, यद्विघ्नमूलखननाय विषाणहस्तः सन्तर्कितोऽसि भगवन् स्वयमुद्यतस्त्वम् ॥
१ नम्र्मेति ख. २ च यत्नत इति च. ३ ग्रन्थेति नास्ति छ. ४ यस्येति छ. ५ कारत्वेनेति छ. ६ अल्पसर इति नास्ति छ. ७ तत्तीरे समीपे इति छ. ८ एकं पदमिति छ. ९, १० छलेनेति च.