________________
प्रमाणमञ्जरी
[द्रव्य [ब. टी.] विशेषलक्षणानि कर्तुं पदार्थसामान्यलक्षणमाह-अभिधेय इति । अभिधा शब्दः, तच्छक्तिर्वा, तद्विषयत्वं पदार्थलक्षणम् । तेन नोभिधापदवैयर्थ्यम् । यद्वा नेदं लक्षणम् , व्यावृत्त्यभावात् , किन्तु पदार्थपदप्रवृत्तिनिमित्तम् । प्रवृत्तिनिमित्ते च वैयर्थ्य नं दोष इति भावः । उद्देशस्तु पदार्थपदेन धोतितो हृदिस्थो बोध्य इति । विशेषविभागमाह-स इति । पूर्व इति । भावरूपः । स इति । विधिविषय इत्यर्थः । तथा च भावत्वं भावत्वप्रकारकप्रमाविषयत्वं वा भावलक्षणं सूचितं भवति । [अ.टी.] अत्र काणादोक्ताः पदार्थाः सामान्यविशेषरूपाभ्यां संक्षेपतो बालबुद्धिव्युत्पादनाय लक्षणप्रमाणारूढा निरूप्यन्ते । ततः पदार्थसामान्यलक्षणं तावदाह-अभिधेय इति । अभिधाशब्दः तद्विषयोऽभिधेय इँति लक्षणम् । पदार्थ इति लक्ष्यनिर्देशः । पर्यायत्वेऽपि लक्ष्यलक्षणभावो दृष्टः । प्रमाणमनुभूतिः, खं छिद्रमित्यादौ, ततोऽभिधेयपदार्थयोः पर्यायत्वात् न लक्ष्यलक्षणभाव इति नाशङ्कनीयम् । नाम्ना निर्देश उद्देशः। स च पदार्थानामनिर्देशनात्र लक्षणे सङ्गृहीतः । लक्षणञ्चासाधारणरूपनिर्देशः । ननु वन्ध्यापुत्र इत्यादिशब्दाभिधेयत्वेऽपि पदार्थत्वं नास्तीत्यतिव्याप्तिर्वन्ध्यापुत्रादौ । पदार्थो हि भावाभावात्मकः प्रमाणसिद्ध आश्रीयते । न च वन्ध्यापुत्रादौ प्रमाणमस्ति । मैवम् ; प्रमाणशास्त्रे प्रमेयत्वसहचरितस्यैवाभिधेयत्वस्य विवक्षितत्वात् । एतज्ज्ञांपनायैव प्रमाणमञ्जरीति संज्ञोक्ता । तस्य च वन्ध्यापुत्रादावभावान्नातिव्याप्तिरित्यादिन्यायप्रमाणाभ्यामवस्थापनं परीक्षा । प्रकारभेदकथनं विभाग इति चतुर्धा निरूपणम् । ततो विभागमाह-स भावाभावमेदादिति । सशब्दः पदार्थपरामर्शी, प्रमाणेनानुभवनादभावोऽपि भावशब्देनाभिधातुं शक्यते । ततः कथमयं विभाग इत्याशङ्कानिरासार्थ भावलक्षणमाह-पूर्व इति । अनपूर्वकश्शब्दो विधिः । यथा द्रव्यं गुण इत्यादि । नास्तीति शब्दमात्रम् , येनाभावोऽस्तीत्यभावस्यापि विधिविषयत्वादतिव्याप्तिराशयेत । अभावस्य प्रतियोगिभावनिरूपणापेक्षत्वात्तमुपेक्ष्य भौवस्य विभागमाह-स षोढेति । 'द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट् पदार्थाः' इत्याचार्यवचनेऽपि पदार्थशब्दस्तदेकदेशभूतभावविषयः । तथा च लीलावतीकारः
__ भावत्वाधिष्ठितास्सर्वाः प्रत्येक व्यक्तयो मताः ।
द्रव्यादिषटू विच्छेदमेलकेन विवर्जिताः ॥ इति । ततो न सूत्रादिविरुद्धोऽयं भावविभागः ।
विषयत्वमेवात्र लक्षणम् । अत्रैवकारः प्रमापदव्यवच्छेदक इत्यधिक च. २ नाभिधेयवैयर्थ्यमिति छ. ३ प्रवृत्तिनिमित्तमिति नास्ति छ. ४ स इतीति नास्ति छ. ५ भासमानवैशिष्ट्यप्रतियोगित्वं प्रकारत्वम् विशेषणविशेष्याभ्यां युक्तं वैशिष्ट्यमिति 'च' पुस्तकटिप्पणी. ६ तत्रेति झ. ७ एतदिति ज. ट. ८ आस्थीयत इति ज. द. ९ द्योतनायैवेति ज. ट. १० व्यवस्थेति ज. ट. ११ द्रव्यगुण इति झ. १२ अतिव्याप्तिमाशङ्केत इति ज. १३ भावविभागमिति ट. १४ कार इति नास्ति ज. ट.