________________
[ षड्दर्शनस० तीर्थेषाः पूजनीयाः । तेषां सर्वतीर्थेषु भरटा एव पूजकाः । तेषु ये निर्विकारास्ते स्वमीमांसागतमिदं पचं दर्शयन्ति-" न स्वधुनी न फणिनो न कपालदाम, नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रान्यदेव च न किंचिदुपास्महे तद्,रूपं पुराणमुनिशीलितमीश्वरस्य।।"..."वीतरागंस्मरन्योगी वीतरागत्वमश्नुते, सरागं ध्यायतस्तस्य सरागत्वं तु निश्चितम् ॥"....एतत्सर्वं लिङ्गवेषदेवादि. स्वरूपं वैशेषिकमतेप्यवसातव्यं, यतो नैयायिकवैशेषिकाणां हि मिथः प्रमाणतत्त्वानां संख्याभेदे सत्यप्यन्योन्यं तत्त्वानामन्त वनेऽल्पीयानेव मेदो जायते, तेनैतेषां प्रायो मततुल्यता। उभयेऽप्येते तपस्विनोऽभिधीयन्ते, ते च शैवादिभेदेन चतुर्धा भवन्ति, तदुक्तम्-" आधारभस्मकौपीनजटायज्ञोपवीतिनः । स्वस्वाचारादिभेदेन चतुर्धा स्युस्तपस्विनः ॥ १॥ शैवाः पाशुपताश्चैव, महाव्रतधरास्तथा । तुर्याः कालमुखा मुख्या, भेदा एते तपस्विनाम ॥२॥" तेषामन्तभैदा भरटभकरलैङ्गिकतापसादयो भवन्ति, भरटादीनां व्रतग्रहणे ब्राह्मणादिवर्णनियमो नास्ति, यस्य तु शिवे भक्तिः स व्रती भरटादिभवेत् , परं शास्त्रेषु नैयायिकाः सदा शिवभक्तत्वाच्छैवा इत्युच्यन्ते वैशेषिकास्तु पाशुपता इति, तेन नैयायिकशासनं शैवमाख्यायते वैशेषिकदर्शनं च पाशुपतमिति ।" (पृ. २०११ ) "अपरं च-अर्थोपलब्धिहेतुः प्रमाणम् , एकात्मसमवायिज्ञानान्तरवेयं ज्ञानं प्रमाणाद्भिन्नं फलं, पूर्व प्रमाणमुत्तरं तु फलम् , स्मृतेरप्रामाण्यम् , परस्परविभक्तो सामान्यविशेषौ नित्यानित्यत्वे सदसदंशौच, प्रमाणस्य विषयः पारमार्थिकः, तमश्छाये अद्रव्ये, आकाशगुणः शब्दोऽौद्ध