________________
विया० टीका ग्लो० ३३]
लिकः, संकेतवशादेव शब्दादर्थप्रतीतिर्न पुनस्तत्प्रतिपादनसामर्थ्यात् , धर्मधर्मिणोर्मेदः, सामान्यमनेकवृत्तिः, आत्मविशेषगुणलक्षणं कर्म, वपुर्विषयेन्द्रियबुद्धिसुखदुःखानामुच्छेदादात्मसंस्थानं मुक्तिरिति । न्यायसारे पुनरेवं-नित्यसंवे. धमानेन सुखेन विशिष्टात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य मोक्ष इति । एषां तर्कग्रन्थाः न्यायसूत्र-भाष्य-वार्तिक-तात्पर्यटीका-परिशुद्धि-न्यायालंकार-; वृत्तयः, भासर्वज्ञप्रणीते न्यायसारेऽष्टादशटोकाः, तासु मुख्या न्यायभूषणाख्या न्यायकलिका, जयन्तरचिता न्यायकुसुमाञ्जलितर्कश्च । " (पृ. ३७)
... षड्दर्शनसमुच्चये श्रीराजशेखरः-" अक्षपादो गुरुस्तेषां तेन ते ह्याक्षपादकाः । उत्तमां संयमावस्थां प्राप्ता नग्ना भ्रमन्ति ते ॥ १५ ॥ अमीषां सर्वतीर्थेषु भरटा एव पूजकाः । शेषा नमस्कारकराः सोऽपि कार्यों न सन्मुखः ॥ ११२ ॥" (पृ. ९-११) योगे वैशेषिके तन्ने प्रायः साधारणी क्रिया। आचार्यः शङ्कर इति नाम प्रागभिधापरम् ॥ २३ ॥ अमीषां तर्कशास्त्राणि घटसहस्राणि कन्दली। श्रीधराचार्यरचिता पशस्तकरभाष्यकम् ॥२१॥ ....जीवस्यान्यन्तिको दुःखवियोंगो मोक्ष इष्यते। यौगानां च तथैवोक्तः प्रायः साधर्मिका यतः ॥ २९॥ शिवेनोलकरूपेण कणादस्य मुनेः पुरः । मतमेतत्प्रकथितं तत मोलक्यमुच्यते ॥ ३० ॥ अक्षपादेन ऋषिणा रचितत्वात यौगिकम् । आक्षपादमिति ख्यातं प्रायस्तुल्यं मतद्वयम् ॥ ३१ ॥