________________
विधा टीका प्रलो० ३२] नामोत्तरं ब्रूयात् ? न चाननुभाषणमेवेदं, ज्ञातेऽपि वस्तुन्यनुमाषभासामर्थ्यदर्शनात् १५॥ . परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराऽप्रतिपत्तिरपतिमा' नाम निग्रहस्थानं भवति १६ । . कार्यव्यासङ्गात् कथाविच्छेदो 'विक्षेपो' नाम निग्रहस्थानं भवति, सिसाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनत्ति- इदं मे करणीयं परिहीयते, "पीनसेन कण्ठ उपरुद्ध ' इत्याचभिधाय कथां (वि)च्छिन्दन् विक्षेपेण पराजीयते १७ । .. स्वपक्षे परापादितदोषमनुढ़त्य तमेव परपक्षे प्रतीपमापादायतो ‘मतानुज्ञा' नाम निग्रहस्थानं भवति, 'चौरो भवान् पुरुपत्वात् प्रसिद्धचौरवदि'त्युक्ते 'भवानपि चौरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितचौरत्वदोषमभ्युपगतवान् भवतीति मताजुजया निगृह्यते १८ । .. निग्रहमाप्तस्याऽनिग्रहः 'पर्यनुयोज्योपेक्षणं' नाम निग्रहस्थान भवति, पर्यनुयोज्यो नाम निग्रहोपपत्त्याऽवश्यं नोदनीय 'इदं ते निग्रहस्थानमुपनतमतो निगृहीतोऽसी'त्येवं वचनीयस्तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणेन निगृह्यते १९ । ... ___ अनिग्रहस्थाने निग्रहस्थानानुयोगाद्' निरनुयोज्यानुयोगो . ४१. “पीनसो रोगविशेष" इति प्र मी. टिप्पणी (पृ. १०३)।