________________
- [षड्दर्शन पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन होनं 'न्यून ' नाम निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धरभावासतिज्ञादीनां पञ्चानामपि साधनत्वादिति ११।
एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकं ' नाम निग्रहस्थानं भवति १२।
शब्दार्थयोः पुनर्वचनं 'पुनरुक्तं'नाम निग्रहस्थानं भवति, अन्यत्रानुवादात् । शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते, यथाऽनित्यः शब्दोऽनित्यः शब्द' इति, अर्थपुनरुक्तं तु यत्र सोऽर्थः प्रथममन्येन शब्देनोच्चार्यते पुनः पर्यायान्तरेणोच्यते, यया'नित्यः शब्दो विनाशी ध्वनि' रिति ।अनुवादे तु पौनरुक्त्यमदोषो, यथा-हेतु(तूप)देशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति १३ ।
पर्षदा विदितस्य वादि(ना) निरभिहितस्यापि यदप्रत्युच्चार तदननुभाषणं' नाम निग्रहस्थानं भवति १४ ।।
पर्पदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं त'दज्ञानं' नाम निग्रहस्थानं भवति । अविदितोत्तरविषयो हि को .. ३९. “शब्देनोक्तः,” इति प्रमाणमीमांसायाम् । (पृ १०१)।
१. तुप्रदेशात् जं.। गौतमसूत्रमिद-" हेत्वपदेशात्प्रतिज्ञायाः पुनर्ववनं. निगमनम् " १-१-३९ इति प्रमाणमीमांसायाम् । (पृ. १०१)।
४०. 'किमुत्तरं' प्र० । बृहवृत्तौ (पृ. ३७/१) क्योत्तर' प्र. मो. (५. १०३)