________________
विद्या० टीका श्लो० ३१ ]
समा जातिः, यथा 'ऽनित्यः शब्द ' इति प्रविज्ञाते जातिवादी. विकल्पयति-' येयमनित्यता शब्द त्योच्यते सा किमनित्या नित्या afa ? यद्यनित्या वदियमवश्यमपायिनीत्यनित्यताया अपायान्नित्यः शब्दः, अथानित्यता नित्यैव तथापि धर्मस्य नित्यत्वात्तस्य च निराश्रयस्यानुपपत्तेस्तदाश्रयभूतः शब्दोऽपि नित्य एव भवेत्, तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथापि नित्यः शब्द ' इति २२ ॥
एवं सर्वभावाऽनित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः, यथा-' घटसाधर्म्यमनित्येन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते तदवटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात्, अथ पदार्थान्तराणां तथा भावेऽपि नानित्यत्वं तर्हि शब्दस्यापि तन्माभूदि त्यनित्यत्वमात्रापादनपूर्वकविशेषोद्भावनाच्चाविशेषसमाता भिन्नेयं जातिः २३ ।
•
प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमा जातिः, यथा' ऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादि' त्युक्ते जातिवाद्याहप्रयत्नस्य द्वैरूप्यं दृष्टं, किञ्चिदसदेव तेन जन्यते यथा घटादिकं, किञ्चित् सदेवावरणव्युदासादिनाऽभिव्यज्यते यथा मृदन्तरितमूलकीलादि, एवं प्रयत्नकार्यनानात्वादेष प्रयत्नेन शब्दो व्यज्यते जन्यते वेति संशय ' इति संशयापादनप्रकारभेदाच्च संशयसमातः १. ते घटादिक किञ्चिद्वेति स जं. ।