________________
__ [ षड्दर्शन - अनुपलध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः, यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते सत्याह जातिवादी-'नप्रयत्नकार्यः शब्दः, मागुच्चारणादस्त्येवासावावरणयोगात्तु नोपलभ्यते, 'आवरणानुपलम्भेऽप्यनुपळम्भान्नास्त्येव शब्द' इति चेत् , नावरणानुपलम्मेऽप्यनुपलम्भसद्भावात् , आवरणानुपलब्धेश्चानुपलम्भादभावा, वंदभावे चावरणोपलब्धे वा भवति, ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य मागुच्चारणादग्रहणमिति प्रयलकार्याभावान्नित्यः शब्द'इति २१ ।। साध्यधर्म्य(म)नित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्य
१. तद्भावे ध.।
३५ किश्चित्स्पष्टावबोधार्थ लिख्यतेऽत्र वृहद्वृत्तीयस्थलम्• अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । तत्रैव प्रयत्नानन्तरीयकत्वे हेतावुपन्यस्ते सत्याह जातिवादी-न प्रयत्नानन्तरीयक: कार्यः शब्दः, प्रागुच्चारणादस्त्येवासौ, भावरणयोगातु नोपलभ्यते । 'आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येवोच्चारणाप्राकशब्द' इति चेत् ? न, भत्र हि याऽनुपलब्धि सा स्वात्मनि वर्त्तते न वा ? वर्तते चेत्तदा यत्रावरणेऽनुपलब्धिर्वर्तते तस्यावरणस्य यथानुपलम्भस्तथाऽवरणानुपलब्धेरप्यनुसलम्भः स्यात् , भावरणानुपलब्धेश्चानुपलम्मादभावो भवेत् . तदभावे चाचरणोफ्लन्धे वो भवति, तत्तथा मृदन्तरितमूलकोलकादिवदावरणोपल-िधकृतमेव शब्दस्य प्रागुच्चारणादग्रहणम्, अयानुपलब्धिः स्वात्मनि न वर्तते चेत् तद्यनुपलब्धिः स्वरूणापि नास्ति, तथाप्यनुपलब्धेरभाव उपलब्धिकास्ततोऽपि शब्दस्य प्रागुच्चारणादप्यस्तित्वं स्यादिति द्वेधापि प्रयत्नकार्यत्वाभावाहित्यः शब्द ' इति" २१ (पृ. ३४)