________________
विद्या० टोका श्लो० ३१ ]
सहिं तयोः सव्येतर गोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति १६ ।
अर्थापत्या प्रत्यवस्थानमर्थापत्तिसमा जातिः, ' यद्य नित्यसाधयत् कृतकत्वादनित्यः शब्दोऽर्थादापद्यते नित्यसाधर्म्यान्नित्य इति, अस्ति चास्य नित्येनाकाशादिना साधर्म्य निरवयवत्वमित्युद्भाareकारभेद एवायमिति १७ ।
४९
अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः, यथा - 'यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगाचयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत' इति १८ ।
उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः, यथा-'यदि कृतकत्वोपपत्या शब्दस्यानित्यत्वं निरवयवोपपत्त्या नित्यत्वमपि कस्मान्न भवति ? पक्षद्वयोपपयाऽनध्यवसाय पर्यवसानत्वं विवक्षितमि' त्युद्भावनप्रकारमेद एवायम् १९ ।
- उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः, यथा 'ऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादि' ति प्रयुक्ते प्रत्यवतिष्ठते - 'न खलु मयत्नानन्तtयकत्वमनित्यत्वे साधनम्, साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनापि विद्युदादावनित्यत्वं, शब्देऽपि क्वचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवे 'ति २० ।
१. नित्ये साधनं हि जं. पु. ।