________________
[ षड्दर्शनस० कार्यसमा जातिभिंधते २४।
तदेवसद्भावनविषयविकल्पभेदेन जातीनामानन्त्ये(प्य) सङ्कीर्णोदाहरणविवक्षया चतुर्विशतिजातिभेदा एते दर्शिता इति ॥ ३१॥
दूषणाभासानुक्त्वा निग्रहस्थानान्याहनिग्रहस्थानमाख्यातं, परो येन निगृह्यते । प्रतिज्ञाहानिसन्न्यासविरोधादिविभेदंवत् ॥ ३२ ॥
व्याख्या-येन केनचिद् द्रव्येण 'परः' विपक्षो निगृह्यतेपरवादी वचननिग्रहे पात्यते तन्निग्रहस्थानम् 'आख्यातं' कथितमिति । कतिचिद्भेदानेव नामतो निर्दिशन्नाह-'प्रतिज्ञाहानिसन्यासविरोधादिविभेदवत्,' हानि-सन्न्यास-विरोधाः प्रतिज्ञाशब्देन सम्बन्ध्यन्ते । आदिशब्देन शेषानपि भेदान्परामशति । एतद्दूषणजालमुत्पाधते येन तन्निग्रहस्थानम् ।। . ३६. एतत्समग्रं चतुर्विंशतिजातिमेदस्थलं यथाऽस्मिन्ग्रन्थ आलिखितं तथा प्रमाणमीमांसासूत्र २-१-२९ तमोपरि वृत्त्या सह संपूर्ण मीलति । (पश्यत पृ. ५)। बृहवृत्तीयस्थलं चैतदीयेन सहेति । .
१. स्थानमाह ध.। २. 'दतः ध. । बृहद्वृत्तावप्येवं पाठः । (घ ३५)। .. "प्रकारेण" धटिप्पणी। ४. यत्तन्नि ।