________________
[ षड्दशनस० 'प्रयोजनं' नाम तत्त्वं यत् किमित्याह-'अथित्वात्' पाणी 'साध्यं' कार्य प्रति वर्तते, प्रतीत्यध्याहार्यम्, न हि निष्फलः कार्यारम्म इति' अयित्वादु'क्तम् , एवं यत् प्रवर्त्तनं तत् प्रयोजनमित्यर्थः॥२५॥
दृष्टान्तस्तु भवेदेष, विवादविषयो न यः। सिद्धान्तस्तु चतुर्भेदः, सर्वतन्त्रादिभेदतः ॥२६॥ _व्याख्या-'तु'पुनरेष दृष्टान्तो नाम तत्त्वं भवेत्, यत् किमिति'विवादविषयो न यः, यस्मिन्नुपन्यस्ते वचने वादगोचरोन भवति, 'इदमित्यं भवति न वेति' विवादो न भवतीत्यर्थः । तावच्चा न्वयव्यतिरेकप्रयुक्तोऽर्थः स्खलति यावन स्पष्टदृष्टान्तावष्टम्भः । उक्तं च
२८"तावदेव चलत्यर्थो, मन्तुर्विषयमागतः ।
यावन्नोत्तम्भनेनैव, दृष्टान्तेनावलम्ब्यते ॥” (१६) .. एष दृष्टान्तो ज्ञेयः। सिद्धान्तः पुनश्चतुर्भेदो भवेत्, कथमित्याह'सर्वतन्त्रादिभेदतः' इति, सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः।
आदिशब्दाद्भेदत्रयमिदं ज्ञेयं, यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति, अमी चत्वारः सिद्धान्तभेदाः। नाममात्रकथनमिदम्, विस्वरग्रन्थेभ्यस्तु विशेषार्थों ज्ञेयः ॥ २६ ।।
१. कयुक्तों ध. । २८. समवतारितं चेदं पद्यं तर्करहस्यदीपिकाघृत्तौ । (पृ. ३०) २. शेषो ज्ञेयः। ध.।