________________
विद्या टीका श्लो० २७-२८ ]
अवयवादितत्त्वत्रयस्वरूपमाहप्रतिज्ञाहेतुदृष्टान्तो-पनया निगमंस्तथा। अवयवाः पञ्च तर्कः, संशयोपरमे भवेत् ॥ २७॥ यथा काकादिसम्पातात्, स्थाणुना भाव्यमत्र हि। ऊर्च सन्देहतर्काभ्यां,प्रत्ययो निर्णयो मतः॥२८॥
युग्मम् ॥ व्याख्या-अवयवाः पञ्चति सम्बन्धः, पूर्वार्धमाह -तिहा हेतुईष्टान्त उपनयो निगमनं चेति पञ्चावयवाः। तत्र १ प्रतिज्ञापक्ष, कृशानुमानयं सानुमानित्यादि। २ हेतुलिङ्गवचनं, धूमवत्त्वादित्यादि। ३ दृष्टान्त उदाहरणवचनं, यो यो धृमवान् स स वह्निमान् यथा महानस इत्यादि । ४ उपनयो हेतोरुपसंहारकं वचनं, धूमवांश्चाय. मित्यादि । ५ निगमनं हेतूपदेशेन पुनः साध्यधर्मोपसंहरणं, तस्मा दह्निमानित्यादि पञ्चावयवस्वरूपनिरूपणमित्यवयवतत्त्वं ज्ञेयमिति । 'तर्कः संशयोपरमे भवेत् यथा काके 'त्यादि, दूरादृग्गोचरे स्पष्टप्रतिभालाभावात् किमयं स्थाणुर्वा पुरुषो वेति संशयस्तस्यो
१. त्वस्वरू' ध.। २. 'मनं तथा। ज पु । २९. गौतमसूत्रमिदं-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः "(१-१-३२) इति प्रमाण मीमांसायाम् । (पृ. ७६ पुना ) ५. पणम् अव ध.।