________________
विद्या टीका श्लो० १३]
व्याख्या- 'अक्षपादाः' नैयायिकास्तेषां मते शासने देवो दर्शनाधिष्ठायकः शिवो महेश्वरः, स कथम्भूतः ? 'मृष्टिसंहारकृ', सृष्टिः-पाणिनामुत्पत्तिः, संहारः-तद्विनाशः, सृष्टि संहारश्चेति द्वन्द्वस्तौ करोतीति 'क्विपि तोन्तः, तथाहि-अस्य प्रत्यसोपलक्ष(क्ष्य)माणचराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः स्रष्टा ज्ञेयः । केवलसृष्टौ च निरन्तरोत्पद्यमानापारपाणिगणस्य भुवनत्रयेप्यमातत्त्वमिति संहारकर्तापि कश्चिदभ्युपगन्तव्यः। यत्पमाणं' - 'सर्व धरणिधरणीधरतरुपुरमाकारादिकं बुद्धिमत्पूर्वकं, कार्यत्वात् , यद्यत् कार्य तत्तबुद्धिमत्पूर्वकं दृष्ट, यथा घटः, कार्य चेदं तस्माद्बुद्धिमत्पूर्वकमिति प्रयोगः,' स च भगवानीश्वर एवेत्यन्वयः, व्यतिरेके गगनम् । न चायमसिदो हेतुः, भूभूधराणां स्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्य जगत्मसिद्धत्वात् । नापि विरुद्धानकान्तिकदोषौ, विपक्षादत्यन्तं व्यावृत्तत्वात् । नापिकालात्ययापदिष्टः, प्रत्यक्षानुमानोपमानागमावाध्यमानधर्मधर्मित्वात् । नापि प्रकरणसमः, तत्मतिपन्धिपदार्थस्वरूपसमर्थनप्रथितप्रत्यनुमानोदयाभावात् । अथ 'निवृतात्मवदशरीरत्वादेव न सम्भवति सृष्टिसंहारकर्तेश्वर' इति प्रत्यनुमानोदयात् कथं' प्रकरणसमदूषणाभाव इति चेद् ? उच्यते-अत्र सा
१ किए तोन्तः, जं. पु. । २ ‘णं धर ध. । ३ तत्तत् सर्वं बुद्धि' ध.। ४ रादीनां ध. । ५ थं न प्रकरणसमः ? इति चेद्ध । ६ तत्रध. ।