________________
(षड्दर्शकस. धर्मा पक्षः, यथा पर्वतोऽयं वहिमान् धूमवस्यात् , अत्र पर्वतः पक्षः, तत्र धर्मत्वं वहिमत्त्वं धूमवत्वेन व्याप्तम् , धूमोऽनि न व्यमिचरतीत्ययः । सपक्षे सत्त्वमिति यो यो धूमवान् स स वहिमान् यथा महानसप्रदेशः, अत्र धूमवत्वेन हेतुना सपक्षे महानसे सत्त्वं वहिमत्त्वमस्तीत्यर्थः । विपक्षे नास्तितेति यत्र वहिर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये, जलाशये हि वहिमत्त्वं व्यावर्त्तमानं व्याप्यं धूमवत्त्वमादाय व्यावतते इति । एवं प्रकारेण हेतोस्त्रीणि रूपाणि मायवामित्यर्थः ॥११॥
उपसंहरबाहबौद्धराद्धान्तवाच्यस्य, संक्षेपोऽयं निवेदितः।
व्याख्या-अयं संक्षेपो 'निवेदितः' कथितो निष्ठां नीत" इत्ययः, कस्य ? 'बौद्धराद्धान्तवाच्यस्य,' बौद्धानां राद्धान्तःसिद्धान्तस्तत्र वाच्योऽभिधातव्योऽर्थस्तस्य । . नैयायिकमतस्येतः, कथ्यमानो निशम्यताम् ॥१२॥
'इत:' अनन्तरं नैयायिकमतस्य-भैवशासनस्य 'कथ्यमानो निशम्यतां' संक्षेपः कथ्यमानः श्रूयतामित्यर्थः ॥१२॥ * : १५ अत्र विशेषोऽभिधीयते कश्चित्तर्करहस्यदीपिकावृत्तितः, तच्चैवं"बुद्धाः सुगतास्ते च सप्त भवन्ति-१ विपश्यो, २ शिखी, ३ विश्वभूः,