________________
विद्या टीका श्लो० ११]
१४नान्योऽ'नुभाव्यो बुद्धयास्ति, तस्या नानुभवोऽपरः। प्रााग्राहकवैधुर्योत्, स्वयं सैव प्रकाशते । (९) बाह्यो न विद्यते हों, यथा बालैर्विकल्प्यते । वासनालुठितं चित्त-मर्थाभासे प्रवर्तते । (१०) इति युक्तं निर्विकल्पकमभ्रान्तं च प्रत्यक्षमिति ।
अनुमानलक्षणमाह-'तु' पुनः, 'त्रिरूपात्' पक्षधर्मत्व-सपअसत्त्व-विपक्षव्यावृत्तिरूपात् 'लिङ्गतो' धूमादेरुपलक्षणाधल्लिनिनो वैश्वानरादेज्ञानं तदनुमानसंज्ञितम'नुमान प्रमाणमित्यर्थः । 'सूत्रे लक्षणं नान्वेषणीयमिति चरमपदस्य नवाक्षरत्वेऽपि न दोष इति ॥१०॥
रूपत्रयमेवाहरूपाणि पक्षधर्मित्वं, सपक्षे विद्यमानता । विपक्षे नास्तिताहेतो-रेवं त्रीणि विभाव्यताम् ॥११॥
व्याख्या-'हेतोः ' अनुमानस्य त्रीणि रूपाणि विभाव्यवामिति सम्बन्धः। तत्र 'पक्षमित्वमिति साध्यधर्मविशिष्टो
नुभयो बुबु । २ 'काश्यते ॥ जं. पु। १४ स्याद्वादमञ्जरी, पृ. १३९ । एतत्पद्यं सर्वदर्शनसमेहेऽपि विलीत एवमेव (पृ. ६३२)। एतत्पद्यं धर्मकीर्तिकृत-प्रमाणविनिश्चय-प्रथमविमागे बरीबर्वत इति स्याद्वादरत्नाकरप्रथमभागे (पृ. १५० पुना )।