________________
बिद्या टीका श्लो० १२ ]
२१
० क्रकुच्छन्दः, ५ काञ्चनः ६ काश्यपः, ७ शाक्यसिंह श्चेति तेषामिदं दर्शनं बौद्धम् । (पृ. ९ )
" बौद्धानां लिङ्गवेषाचारादिस्वरूपं प्रदर्श्यते चमरो मौण्डयं कृत्तिः कमण्डलुश्च लिङ्गम्, धातुरक्तमागुल्फं परिवानं वेषः, शौचक्रिया बही।
“भिक्षायां पात्रे पतितं सर्वं शुद्रमिति मन्वाना मांसमपि भुञ्जते, मागें जीवदयार्थ प्रमृजन्तो व्रजन्ति, ब्रह्मचर्यादिस्वकीयक्रियायां च भृशं दृढतमा भवन्तीत्यादिराचारः । धर्मबुद्धसङ्घरूपं रत्नत्रयम्, तारादेवी शासने विघ्ननाशिनी, विपश्यादयः सप्त बुद्धाः कण्ठे रेखात्रयाङ्किताः सर्वज्ञा देवाः, बुद्धस्तु सुगतो धर्मधातुरित्यादीनि तन्नामानि तेषां प्रासादा वर्तुला बुद्धांडकसंज्ञाः, भिक्षुसौगतशाक्यशौद्धोदनिसुगतताथागतशून्यवादिनामानो बौद्धाः, तेषां शौद्धोदनिधर्मोत्तरार्चटधर्मकीर्तिप्रज्ञाकरदिग्नागप्रमुखा ग्रन्थकारा गुरवः । (पृ. १० - १ )
"L
तत्र प्रमाणादभिन्नमर्थाधिगम एव प्रमाणस्य फलम्, तर्कप्रत्यभिज्ञयोरप्रामाण्यं परस्परविनिर्लुठितक्षणक्षयिपरमाणुलक्षणानि स्वलक्षणानि, प्रमाणगोचरस्तात्त्विकः, वासनारूपं कर्म, सुखदुःखे धर्माधर्मात्मके पर्याया एव सन्ति, न द्रव्यम्, वस्तुनि केवलं स्वसत्त्वमेव, न पुनः परासत्त्वमिति सामान्येन बौद्धमतम् । अथवा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिक मेदाच्चतुर्धा बौद्धा. भवन्ति । तत्रार्यसमितीया परनामकवैभाषिकमतमदः - चतुः क्षणिकं वस्तु बातिर्जनयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो विनाशयति तथा