________________
१६
[ षड्दर्शनस० नखकेशकलापादिषु स एवायमिति प्रतीतिः, तथेहापि किं न सम्भाव्यते सुजनेन? तस्मात् सिद्धसाधनमिदं यत् सत् तत् क्षणिकमिति युक्तियुक्तं च 'क्षणिकाः सर्वसंस्कारा इत्येवं वासनेति । प्रस्तुतार्थमाह-एवं या वासना स मार्गों नामार्यसत्यम् 'इह' बौद्धमते 'विज्ञेयः' अवगन्तव्यः। तुशब्दः पाश्चात्यार्थसङ्ग्रहपूर्व समुच्चयार्थे। 5 चतुर्थमार्यसत्यमाह-'निरोधः', किमित्याशंकायां मोक्ष उच्यते, 'मोक्ष' अपवर्गः, सर्वक्षणिकत्व-सर्वनैरात्म्यवासनारूपो निरोधो नामार्यसत्यमभिधीयत इत्यर्थः ॥७॥
अथ तत्त्वानि व्याख्याय तत्संलमान्येवायतनान्याहपञ्चेन्द्रियाणि शब्दाद्या, विषयाः पञ्च मानसम् । 10 धर्मायतनमेतानि, द्वादशायतनानि च ॥८॥
व्याख्या-पञ्चसङ्ख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःप्रोत्ररूपाणि, शब्दाद्या विषयाः पञ्च-शब्दरूपरसस्पर्शगन्धरूपाः पञ्चविषया इन्द्रियव्यापारा इत्यर्थः, 'मानसं' चित्तं, 'धर्मायतनम्' इति-धर्मप्रधानमायतनं चैत्यस्थानमिति धर्मायतनम् , एतानि 15 द्वादशसङ्ख्यानि ज्ञाता(तव्या)नि । न केवलमेतानि द्वादशायतनानि, (अपि) च-जाति१-जरा२ मरण३-भव४-उपादान५-तृष्णाद-वेदना
१२ “धर्माः सुखदुःखादयस्तेषामायतनं गृहं शरीरमित्यर्थः।" इति श्रीबृहत्तौ गुणरलसूरयः । (पृ. १३/१ आ.स.मु.)