________________
विद्याष्टीकाश्लो०७]
औत्पत्तिकं पदार्थकदम्बकं घटादिकं मुद्रादिसामग्रीसाकल्ये विनश्वरमाकलय्यते, तत्र योऽस्य प्रान्त्यावस्थायां विनाशस्वभावः पैदार्थसार्थोत्पत्तिसमये विद्यते स स्वभावो नोऽथवा ? विद्यते चेदापतितं तदुत्पत्तिसमयानन्तरमेव विनश्वरत्वम् । अथेदृश एव भावो यत् कियन्तमपि कालं स्थित्वा विनष्टव्यम् , एवं चेन्मुद्गरादिसन्निधानेप्येष एव तस्य स्वभाव इति भूयोऽपि तावत्कालं स्थेयम् , एवं च मुद्गरादिघातशतपातेऽपि न विनाशः, जातं कल्पान्तस्थायित्वं घटस्य, तथा च जगद्व्यवहारव्यवस्थालोपपातकपङ्किलता, इत्यभ्युपेयमनिच्छु
नापि क्षणक्षयित्वं पदार्थानाम् । प्रयोगस्त्वेवं यद्विनश्वरं तदुत्पत्ति10 समयेऽपि तत्स्वरूपम् , यथान्त्यक्षणवर्तिघटस्य स्वरूपं, विनश्वर
स्वभावं च रूपरसादिकमुदयत आरभ्येति स्वभावहेतुः। ननु यदि क्षणक्षयिणो भावाः कथं तर्हि ‘स एवायमिति वासनाज्ञानम् ? उच्यते, निरन्तरसदृशापरापरक्षणनिरीक्षणचैतन्योदयादविद्यानुबन्धाच पूर्वक्षणप्रलयकाल एव दीपकलिकायामिव सैवेयं दीपकलिकेति संस्कारमुत्पाद्य तत्सदृशमपरं क्षणान्तरमुदयते, तेन समानाकारज्ञानपरम्परापरिचर्यविरचितपरिणामानिरन्तरोदयाच पूर्वक्षणानामत्यन्तोच्छेदेऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति, दृश्यते च लूनपुनरुत्पन्नेषु
___A पदार्थोत्प जं. पु.। B समनन्त पु. जं.। c स्वभावो ध.। D°टस्येति, जं.। E यचिरतरपरि जं.।