________________
[षड्दर्शनसः व्याख्या-'यतः यस्माल्लोके 'रागादीनां रागद्वेषमोहानाम् 'अखिल समस्तो गणः 'समुदेति'उद्भवति । कीदृक्षः? इत्याह'आत्मात्मीयस्वभावाख्यः', अयमात्मा अयं चात्मीयः, पदे. पदसमुदायोपचाराद् 'अयं पर', 'अयं च परकीय' इत्यादिभावो रागद्वेषनिबन्धनं तदाख्यः-तन्मूलो रागादीनां गण आत्मात्मीय- 5 रूपेण रागरूपः परकीयपरिणामेन च द्वेषरूपो यतः समुदेति समुदयः-समुदयो नाम तत्त्वम् , 'सम्मतः'बौद्धदर्शनेभिमत इति॥६॥
अथ तृतीयचतुर्थतत्त्वे प्रपञ्चयन्नाहक्षणिकाः सर्वसंस्कारा, इत्येवं वासना तु या। स मार्ग इति विज्ञेयो, निरोधो मोक्ष उच्यते॥७॥ 10
व्याख्या-सर्वसंस्काराः क्षणिकाः, सर्वेषां विश्वत्रयविवेरवर्तमानानां घटपटस्तम्भकुम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु 'स एवायं स एवायमित्याद्युल्लेखेन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगता क्षणिकाः, यत् प्रमाणयन्ति
'सर्व सत् क्षणिकम् , अक्षणिके क्रमयो(यौ)गपद्याभ्यामर्थक्रियाविरो- 15 धादिति वादस्थलमम्भूह्यम् ।
क्षणिकत्वावशेषिकं विशेषोपपत्तिश्च समग्रं तावद- . + अयमात्मीयः ध. । * विवर्व . जं. । A त्व' ध. | B विशेष जं. ।