________________
5
विद्याथ्टीकारलो०६]
'संस्कार' इति, इहभवपरभवविषयः सन्तानः पदार्थनिरीक्षणप्रबुद्धपूर्वभवानुभूतसंस्कारस्य प्रमातुः स एवायं देवदत्तः' 'सैवेयं दीपकलिका' इत्या-द्याकारेण ज्ञानोत्पत्तिः संस्कारः। यदाह
यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना।
फलं तत्रैव सन्धत्ते, कर्पासे रक्तता यथा ॥” (८) इति । 'रूपमि'ति, रगरगायमाणपरमाणुप्रचयः। बौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजालस्य तत्तद्दर्शनोपपत्तिमिनिराक्रियमाणत्वात् परमाणव एव तात्त्विकाः। 'च' पुनरर्थे 'एवं' इति पूरणार्थे ॥५॥
दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्याथ समुदयतत्त्वखरूपमाहसमुदेति यतो लोके, रागादीनां गणोऽखिलः। आत्मात्मीयस्वभावाख्यः, समुदयः स संमतः॥६॥
रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्चस्कन्धा विद्यन्ते, न पुनरात्मा, 15 त एव हि परलोकगामिनः, तथा च तत्सिद्धान्तः-'पञ्चेमानि भिक्षवः संज्ञामात्रं
प्रतिज्ञामात्रं संवृत्तिमात्रं व्यवहारमात्रम् , कतमानि पञ्च ? अतीतोऽद्धा, अनागतोऽद्धा, सहेतुको विनाशः, आकाशं, पुद्गल' इति ।" (मु. पृ. १९/१)
+ इति आका ध.। " स्याद्वादमञ्जर्यामपि, पृ. १५६.
* °य भावाख्यः समुदयः स उदाहृतः ॥ ध.। एवमेव मुद्रिते 20 वृहदवृतावपि मूलस्य पाठः (पृ. ११/२ आ. स.)