________________
विद्याथ्टीका श्लो० ३] इत्याह-'मूलभेदव्यपेक्षया', मूलभेदास्तावत् षडेव-पट्सङ्ख्याः, तेषां व्यपेक्षया-तानाश्रित्येत्यर्थः। तानि दर्शनानि 'मनीषिभिःपंडितः, 'ज्ञातव्यानि'-बोद्धव्यानि। केन प्रकारेणेति-'देवता
तत्त्वभेदेन',देवताः-दर्शनाधिष्ठायिकाः तत्त्वानि च-मोक्षसाधकानि 5 रहस्यानि, तेषां भेदः, तेन पृथक् पृथग् दर्शनदेवता दर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ॥२॥
तेषामेव दर्शनानां नामान्याहबौद्धं नैयायिक साङ्ख्यं, जैन वैशेषिकं तथा । जैमनीयं च नामानि, दर्शनानाममून्यहो ॥३॥ व्याख्या-'अहो' इति इष्टामत्रणे। 'दर्शनानां मतानाममूनि नामानीति सङ्ग्रहः । ज्ञेयानीति क्रियाऽस्ति-भवतीत्यादिवदनुक्ताप्यवगन्तव्या। तत्र 'बौद्धम्' इति बुद्धो देवताऽस्येति बौद्धंसौगतदर्शनं १ । 'नैयायिक'-पाशुपतदर्शनम् , तत्र न्यायः-प्रमाण
मार्गः, तस्मादनपेतं नैयायिकमिति व्युत्पत्तिः २। 'सांख्यमिति 15 कापिलदर्शनम् , आदिपुरुषनिमित्तेयं संज्ञा ३। 'जैनम्' इति जिनो
देवताऽस्येति जैनम् आर्हतं दर्शनम् ४। 'वैशेषिकम्' इति काणाददर्शनं,दर्शनदेवतासाम्येऽपि नैयायिकेभ्योद्रव्यगुणादिसामग्र्या विशिष्टमिति वैशेषिकम् ५। 'जैमनीयं जैमनि-ऋषिमतं भाट्ट
+ 'तातत्त्वानि च ध. । * वत्यादि ध.। A 'यिकदर्शनं पाशुध.।