________________
१०
[ षड्दर्शनस
दर्शनम् ६ । चः समुच्चयस्पर्शकः । एवं तावत् षड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ||३||
अर्थं द्वारश्लोके प्रथममुपन्यस्तत्वाद् बौद्धदर्शन मे वदावाचष्टेतत्र बौद्धमते तावद्, देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ||४||
व्याख्या—'तत्र' तस्मिन् 'बौद्धमते' सौगर्तशासने 'तावद्' इति प्रक्रमे 'सुगतो देवता' बुद्धो देवता - बुद्धभट्टारको दर्शनादिकरः । 'किल' इत्याप्तप्रवादे । तमेव विशिनष्टि तत्त्वनिरूपकत्वेनकथम्भूतो देवता ? ' प्ररूपकः' दर्शकः कथयितेति यावत् । केषाम् ! इत्याह- 'आर्य सत्यानाम्' आर्यसत्यनामधेयानां तत्त्वानाम् । कति- 10 संख्यानाम् ? इति - 'चतुर्णां ' चतूरूपाणाम् । किंरूपाणाम् ? इत्याह'दुःखादीनां दुःख समुदय-मार्ग (र्ग) निरोधलक्षणानां, आदिशब्दोऽवयवार्थोऽत्र । यदुक्तम्
'सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा ।
चतुष्वर्थेषु मेधावी, आदिशब्दं तु लक्षयेत् ॥” (५) इति । एवंविधः सुगतो बौद्धमते देवता ज्ञेय इत्यर्थः ॥ ४ ॥
८८
* 'थ यथा द्वार पु. । + वाचष्टे ध. । A तदर्शने ध. । B बौद्धो जं. पु. । C प्येऽपि व्य .
15