________________
विचाटीकालो० २] तद्यथा-सत्वम् १, असत्वं २, सदसत्वम् ३, अवाच्यत्वं ४, सदवाच्यत्वम् ५, असदवाच्यत्वं ६, सदसदवाच्यत्वं ७ चेति । सप्त च विकल्पा नवभिर्गुणिता जातास्त्रिषष्टिः, उत्पत्तेश्चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति, शेषं विकल्पत्रयं तूत्पत्युत्तरकालं पदार्थावयवापेक्षमतोऽत्रासंभवीति नोक्तम् , एते चत्वारो विकल्पास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते ततः सप्तषष्टिर्भवन्ति । ततः को जानाति जीवः सन्नित्येको विकल्पः, न कश्चिदपि जानाति, तद्ग्राहकप्रमाणाभावादिति भावः, ज्ञातेन वा किं तेन प्रयोजनम् ? ज्ञानस्याभिनिवेशहेतुतया परलोकप्रतिपन्थित्वात् । एवमसदादयोऽपि विकल्पा
भावनीयाः । उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति ? 10 ज्ञातेन वा न किश्चिदपि प्रयोजनमिति ।
तथा विनयेन चरन्तीति वैनयिकाः, वसिष्ठपराशरवाल्मीकिव्यासेलापुत्रसत्यदत्तप्रभृतयः । एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, ते च द्वात्रिंशत्संख्या अमुनोपायेन द्रष्टव्याः-सुरनृपतियतिज्ञातिस्थ
विराधममातृपितृरूपेष्वष्टसु स्थानेषु कायेन मनसा वाचा दानेन च देश15 कालोपपन्नेन विनयः कार्य इति चत्वारः कायादयः स्थाप्यन्ते, चत्वारश्चाष्ट
भिर्गुणिता जाता द्वात्रिंशत् । एवमेतानि त्रीणि शतानि त्रिषष्टयधिकानि परदर्शनानां भवन्ति ।
अथवा लोकस्वरुपेऽप्यनेके वादिनोऽनेकधा विप्रवदन्ते, तद्यथा-केचि-- नारीश्वरजं जगन्निगदन्ति, परे सोमाग्निसम्भवम्, वैशेषिका द्रव्यगुणादिषड़20 विकल्पम् , केचित्काश्यपकृतम् , परे दक्षप्रजापतीयम्, केचिद्ब्रह्मादित्रयैक