________________
[ षड्दर्शनस० एवमजीवादिष्वष्टषु पदार्थेषु प्रत्येक विंशतिर्विंशतिविकल्पा लभ्यन्ते, ततो विशतिर्नवगुणिता शतमशीत्युत्तरं क्रियावादिनां भवति । *. तथा न कस्यचिप्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया संभवति, उत्पत्त्यनन्तरमेव विनाशात् इत्येवं ये वदन्ति ते अक्रियावादिन आत्मादिनास्तित्ववादिन इत्यर्थः । ते च कोलकाण्ठेविद्विरोमकसुगतप्रमुखाः । एतेषां 5 चतुरशीतिर्भवति । सा चामुनोपायेन द्रष्टव्या-पुण्यापुण्यवर्जितशेषजीवाजीवादिपदार्थसप्तकन्यासः, तस्य चाधः प्रत्येकं स्वपरविकल्पोपादानम् , असत्वादात्मनो नित्यानित्यविकल्पो न स्तः, कागदीनां पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिनस्ततः प्राग्यदृच्छा नोपन्यस्ता। तत एवं विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः,... 10 तथा च स्वतः पडिकल्पा लब्धाः । तथा नास्ति परतः कालत इत्येवमपि "षड्रिकल्पा लभ्यन्ते, सर्वेऽपि मिलिता द्वादश विकल्पा जीवपदेन लब्धाः,
एवमजीवादिष्वपि षट्सु पदार्थेषु प्रत्येकं द्वादश द्वादश विकल्पा लभ्यन्ते, 'ततो द्वादशभिः सप्तगुणिताश्चतुरशीतिर्भवन्त्यक्रियावादिनां विकल्पाः । " तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, ततोऽनेकस्वरादिति 15 मत्वर्थीय 'इक' प्रत्ययः । अथवाऽज्ञानेन चरन्तीत्यज्ञानिकाः, असश्चिन्त्यकृतकर्मबन्धवैफल्यादिप्रतिपत्तिलक्षणाः साकल्यसात्यमुग्रिमौदपिप्पलादबादरायण'जैमिनिवसुप्रभृतयः ।...ते चाज्ञानिकाः सप्तषष्टिसंख्या अमुनोपायेन प्रति"पत्तव्याः-इह जीवाजीवादीपदार्थान्क्वचित् पट्टकादौ व्यवस्थाप्य पर्यन्त उत्पत्तिः स्थाप्यते, तेषां च जीवादीनां नवानां प्रत्येकमधः सप्त सत्वादयो न्यस्यन्ते, श