________________
विधा टीका श्लो० ६८ ]
गरुत्मच्छाखामृगयो-लेक्चनाभ्याससम्भवे । समानेऽपि समानत्वं, लञ्चमस्य न विद्यते ॥ (६३)
न च सुतरां चरणशक्तिमानपि पङ्गुरखपर्वतशिखरमधिरोहूँ क्षमः, उक्तं च" दशहस्तान्तरं व्योम्नो, यो नामोत्पलुत्य गच्छति ।
न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि ॥" (६४) ।
अथ मा भवतु मानुषस्य सर्वज्ञत्वं ब्रह्मविष्णुमहेश्वरादीनामस्तु, ते हि देवाः, सम्भवत्यपि तेवतिशयसम्पन् । यत् कुमारिल:" अथापिx वेददे इत्वाद, ब्रह्मविष्णुमहेश्वराः ।
कामं भवन्तु सर्वज्ञाः, सावश्यं मानुषस्य किम् ॥” (६५) इति .
तदपि न, रागद्वेषमूलनिग्रहानुग्रहग्रस्तानामसम्माव्यमिद्मेषामिति । न च प्रत्यक्षं तत्साधकं, 'सम्बद्धं वर्तमानं च गृह्यते 'चक्षुरादिने'ति वचनात् , न चानुमानं, प्रत्यक्षहष्ट एवार्थे तत्मवृत्ते, न चागमः, सर्वज्ञस्यासिद्धत्वेन तस्यापि विवादास्पदत्वाव, न वोपमान, तदभावादेव, अर्थापत्तिरपि न, सर्वज्ञसाधकस्यान्यथानु.
१३१. तत्वसंग्रह. भा. २, पृ २२६, लो० ३१६८, तत्रोत्तरार्द्ध “न योजनमलो गन्तु" मिति पाठः । (गा०सि० बरोडा) - *. वन्त्यपि तेष्वतिशयलम्पदः। यत् ध.। x 'पि ते विदे. हत्वाद् ध । "पि दिव्यदेहत्वाद् ७० वृ० पृ. ११४/१।
१३२. प्रमाणमीमांसा पृ. २१ । तत्त्वसंग्रह भा॰ २, पृ. ८३६, लो० ३२०८, तत्रोत्तरार्द्ध “सर्वज्ञानमयाद्वेदासर्वज्ञा मानुषस्य किम् ॥" • इति दृश्यते ।