________________
१३०
[ षड्दर्शनस० पूर्वमीमांसावादिनश्च द्विधा-प्र(मा)माकरा माताश्च, क्रमेण पञ्च-षट्प्रमाणप्ररूपकाः। अत्र तु सामान्येन सूत्रकृत् पूर्वमीमांसावादिन एव जैमनीयानुद्दिष्टवान् । ते पुनर्जेमनीया प्राहुः कथयन्ति, कथमित्याह-'सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्या वचो वचनं मानं प्रमाणं भवेत् । 'सर्वज्ञादिविशेषण' इति सर्वज्ञत्वादिना गुणेन विशेष्यत इति, आदिशब्दाद् विभुत्वनित्यत्वचिदात्मकत्वादिगुणविशिष्टः, कोऽपि देवो नास्ति यद्वचनं प्रमाणतामनुभवेत्, मानुषत्वाविशेषेण विप्रलम्भकत्वाद् द्रव्यपुरुषवत् सर्वज्ञादिगुणविशिष्टपुरुषाधभाव इत्यर्थः। अथ किङ्करायमाणमुरासुरसेव्यमानताधुपलक्षणेन त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभूत्यन्यथानुपपत्तेश्वास्ति कश्चित्पुरुषविशेषः सर्वज्ञ इति चेन, त्वाथ्योक्तवचनप्रपंचोपन्यासरेव निरस्तत्वात् , यथा" देवागमनभोयान-चामरादिविभूतयः ।
मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥" (६२)
अथ 'यथाऽनादेरपि मुवर्णमलस्य क्षारमृत्पुटपाकादिमक्रियया विशोध्यमानस्य निर्मलत्वमेवमात्मनोऽपि निरन्तरज्ञानाधभ्यासेन विगतमलत्वात् किं न सम्भवेत् ? इति मतिः,' तदपि न, न ह्यभ्यासमात्रसाम्ये शुद्धरपि तादवस्थ्यम् , यदुक्तम्
+ ‘स्य मान बचो भवेत् ध.।। १३० आप्तमीमांसा श्लो० १, अष्टसहस्री पृ. ३ ।