________________
विधा० टीका श्लो० ६८ ] 'ईय'-प्रत्ययः, जैमनिशिष्याश्चैकेउत्तरमीमांसावादिन एके पूर्वमीमांसावादिनः, तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केवलब्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्ती खेटयन्तोऽनिर्वाच्यतत्वे व्यवतिष्टन्ते, यदाहुः
अंतर्भावितसत्त्व चेत् , कारणं तदसत् ततः । नान्तर्भावितसत्त्वं चेत्, करणं तदसत् ततः ॥ (५७) यथा यथा विचार्यन्ते, विशीयन्ते तथा तथा।। यद्येतत् स्वयमथेभ्यो. रोचते तत्र के बयम् ॥ (५८) एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित् । आस्ते न धीरवारस्य भङ्गः सङ्गरकेलिषु ॥ ५९)
एवं वादिप्रतिवादिनोः समस्तलोकशास्त्रैक-मन्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तद्व द्वस्तुधाव्यवहारयोः ॥ ६०) उपपादयितुं तैस्तै-मैतैरशकनीययोः । अनिर्वक्तव्यतावाद पादसेवागतिस्तयोः ॥ ६१
इत्यादि प्रलयकालानिलक्षुभितचरमसलिल राशिकल्लोलमालानुकारिणः परब्रह्माद्वैतसाधक हेतूपन्यासाः मोच्छनन्तश्चतुर(चेतसि) चमत्कारं जनयन्तः क्व पयवस्यन्ति ? तास्तु युक्तीः पत्रकृताऽनुल्लिङ्गितत्वाद्ग्रन्थविस्तरमयाच्च नेह प्रपञ्च्यन्ते, अभियुक्तस्तु लण्डनमहातदिवसेयाः।
* 'ज्या एके जं. पु । +. निधिक° पु.।